पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

यूष्णा । “पूर्वस्मादपि विधौ स्थानिवद्भाव ' इति पक्षे तु “ अड्व्यवाये इत्येवात्र णत्वम् । “पूर्वत्रासिद्धे न स्थानिवत्' (वा ४३३) इति त्विह नास्ति । तस्य दोष संयोगादिलोपलत्वणत्वेषु' (वा ४४०) इति निषेधात् ।

२३६ । न लोपः प्रातिपदिकान्तस्य । (८-२-७)


विधावजादेशस्थानिवदिति पक्षोऽपि भाष्ये स्थित । एवञ्चात्र लोपादेशस्थानीभूतादकारात् पूर्वो य षकार तस्मात्परस्य नकारस्य णत्वविधौ लोपस्य स्थानिवद्भावे सति अकरेण व्य वधानात् षात्परत्वाभावात् कथ णत्वमित्यत आह । पूर्वेस्मादिति ॥ पक्षे त्वित्यादिना अस्य पक्षस्यानित्यत्व सूचितम् । अत एव प्रविगणय्येति भाष्ये प्रयुक्त सङ्गच्छते । चुरादौ ‘गण सङ्खयाने' इत्यदन्तो धातु । णिच् । अतो लोप । अल्लोपस्य स्थानिवद्भावात् ‘अत उपवाया इति वृद्धिर्न । ण्यन्तात् क्वो ल्यपि णिलोप बाधित्वा ‘ल्यपि लघुपूर्वात्’ इति णेरयादेश । पूर्व स्मात् परस्य विधौ स्थानिवद्भावस्य नित्यत्व इह ‘त्यपि लघुपूर्वात्’ इति णेरयादेशो न स्यात् । लोपस्थानीभूतादत पूर्वस्मात् परस्य णेरयादेशविधावल्लोपस्य स्थानिवद्भावे सति अता व्यवहेि तत्वेन णेर्लघुपूर्वात् णकारात् परत्वाभावात् । तस्मात् ‘अच परस्मिन्’ इत्यत्र पूर्वस्मात् परस्य विधौ स्थानिवद्भावस्यानित्यत्व विज्ञायते । एवञ्च गोशव्दात् सम्बुद्धौ ओतो णित्वे वृद्धौ गौरिति सि ध्यति । अन्यथा औकारस्य स्थानीभूतादोकारात् । पूर्वो यो गकार तस्मात् परस्यास्सम्बुद्धेलॉप विधौ स्थानिवद्भावे ओकारादेड परत्वात् सम्बुद्धिलोपस्यादिति शब्देन्दुशेखरे स्पष्टम् । अङ्कयवाये इत्येवेति ॥ ‘अट् कुप्वाड्’ इति सूत्रेणैवेत्यर्थ । षादव्यवहितपरस्य नस्य णत्व विधावुदाहरणन्तु पुष्णातीत्यादि बोध्द्यम् । वस्तुतस्तु “तत्रापि ष्टुत्वेनैव सिद्ध षग्रहणम् उत्त रार्थम्” इति स्पष्टमाकरे । नन्वल्लोपस्य णत्वे कर्तव्ये कथ स्थानिवद्भाव । पूर्वत्रासिद्ध न स्थानि वदिति निषेधात् । णत्वस्य पूर्वत्रासिद्धीयत्वादित्यत आह । पूर्वत्रेति ॥ सयोगादिलोपे लत्वे णत्वे च कर्तव्ये तस्य, पूर्वत्रासिद्धे न स्थानिवदित्यस्य, दोष बाध, अप्रवृत्तिरिति यावत् । सयोगादिलोपे यथा । चक्रयत्र । इह “अच परस्मिन्’ इति यणादेशस्य स्थानिवद्भावात् स्कोस्सयोगाद्यो ' इतिककारलोपो न । लत्वे यथा निगाल्यते । अत्र णिलोपस्य स्थानि

वत्वात् “अचि विभाषा' इति लत्वम् । णत्वे यथा । माषवपनी । वपतेल्र्युट्, अनादेश

उगित्वात् डीप्, ‘यस्येति च' इति नकारात् अकारस्य लोप । इह अकारलोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाभावात् ‘प्रातिपदिकान्तनुम्विभक्तिषु च' इति णत्वन्न । यूषन् म्यामिति स्थिते । न लोपः ॥ न इति स्थानषष्ठयन्त पृथक्पदम्। आर्ष षष्ठया लुक् । नकारस्य लोप स्यादित्यर्थः । अन्तस्येति नकारस्य विशेषणम् । अत एव च नस्य विशेषणसापेक्षत्वात् लोप शब्देन समासो न भवति । असामर्थ्यात् । कस्यान्ते इत्यपेक्षाया पदस्येत्यधिकृतम् अव यवषष्ठयन्तमन्वेति । पदस्य योऽयमन्तावयव , तस्य नकारस्य लोप इति । कीदृश पदमित्य पेक्षाया प्रातिपदिकान्तस्येति षष्ठयन्तमन्वेति । प्रातिपदिकसज्ञक यत् पद तस्य योऽयमन्ता वयवो नकार तस्य लोप. स्यादिति । अत एव प्रातिपदिकान्तस्येति न समस्तमेक पदम् ।