पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[संज्ञा
सिद्धान्तकौमुदीसहिता

उपदेशेऽनुनासिकोऽजित्संज्ञ' स्यात् । प्रतिज्ञानुनासिक्या. पाणिनीया लण्’ (प्र सू ६) सूत्रस्थावर्णेन सहोचार्यमाणो रेफो रलयो संज्ञा । प्रत्याहारे ष्वितां न ग्रहणम् । “ अनुनासिक.' इत्यादिनिर्देशात् न ह्यत्र ककारे परे ऽच्कार्य दृश्यते । “आदिरन्येन–' (सू २) इत्येतत्सूत्रेण कृता संज्ञा प्रत्या हारशब्देन व्यवह्रियन्ते |


लभ्यते । तदाह । उपदेशे अनुनासिक इत्यादिना ।। सूत्रे अजिति कुत्वाभाव आर्ष अजित्सज्ञ स्यादिति विवरणे कुत्वाभाव असन्देहार्थ । ननु मुखेन नासिकयाचोचार्यमाणो वर्ण अनुनासिक इत्यनुपदमेव वक्ष्यते । शास्त्रकृता च एते कतिपयवर्णास्तथोच्चारिता । इतरे तु के वलमुखेन उच्चारिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह । प्रतिज्ञानुनासिक्याः पाणिनीया इति । प्रतिज्ञायते अभ्युपगम्यत इति प्रतिज्ञा । नित्यस्त्रीलिङ्गोऽयम् । त्रियामित्य धिकारे आतश्चोपसर्ग इति कर्मण्यड् । अनुनासिकस्य भाव आनुनासिक्य । प्रतिज्ञा आनुनासि क्य येषा ते प्रतिज्ञानुनासिक्या पाणिनिशिष्या इत्यर्थ शिष्यपरम्परया शास्त्रकृता तथाविध मुच्चारण इदानीन्तनाना सुगममिति यावत् । तदेव लण्सूत्रे अकारस्य अनुनासिकत्वादित्सज्ञा सिद्धा। तत किमित्यत आह । लण् सूत्रस्थेति ॥ लणुसूत्रे तिष्ठतीति लणसूत्रस्थ सचासाव वर्णश्च लण्सूत्रस्थावर्ण तेन सहोच्चार्यमाणो रेफ र इत्येव रूप रेफलकारयोस्सज्ञेत्यर्थ वस्तु तस्तु रप्रत्याहार एव नास्तीति शब्देन्दुशेखरे व्यक्तम् । ननु आदिरन्येनेति सूत्रे मच्द्यगानामादे श्च सज्ञेति स्थितम् । एवञ्च अजादप्रत्याहारेषु सज्ञाकोटिप्रविष्टानामन्त्यानामिता ग्रहणाभावेऽपि णकारादीनामपि मछद्यगत्वाविशेषात् ग्रहणस्यात् ततश्च रलयोस्सज्ञेति पूर्वग्रन्थे रलयोरिति न्यून टकारस्यापि मद्यगत्वेन ग्राह्यत्वादित्यत आह । प्रत्याहारेष्वितान्न ग्रहणमिति प्रत्याहारेषु अजादिसज्ञासु मद्यवर्तिनामपि इतान्न ग्रहणमित्यर्थ । कुत इत्यत आह । अनु नासिक इत्यादिनिर्देशात् इति ॥ आदिना तृषि मृषि कृषे काश्यपस्येत्यादि सङ्गह कथमय निर्देश उक्तार्थे हेतुरित्यत आह । नहीति । अत्र अनुनासिकशब्दे ककारे परे इका रस्य अच्प्रयुक्त कार्य इको यणवीति यणादेश न दृश्यते हीति योजना । यदिहि अजादिप्रत्या हारेषु इतामपि ग्रहण स्यात् तर्हि अच्प्रत्याहारे ऋलृक् इति ककारस्यापि प्रविष्टत्वेन अच्त्वा तस्मिन् परे इकारस्य इको यणचि इति यणादेशे लोपो व्योर्वलीति लोपे अनुनास्क इति स्यात् इकारो न श्रूयेत । श्रूयते च । अत प्रत्याहारेष्वितान्न ग्रहणमिति विज्ञायत इति भाव । यत्तु ऋलृ क् इति ककारस्य अच्प्रत्याहारप्रविष्टत्वेऽपि प्रत्ययस्थादित्यादिना इत्वविधिसामर्थ्यादेव यण्लो पश्च न भवति । अन्यथा लाघवाल्लोपमेव विदद्यात् । अत प्रत्याहारेष्वितान्न ग्रहणमित्यत्र अनु नासिक इत्यादि निर्देशो न लिङ्गमित्याहु । तन्न प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुप इतीत्व विधौ वर्णाधिक्यप्रसङ्गात् । प्रत्याहारशब्दस्याप्रसिद्धार्थत्वादाह । आदिरन्त्येनेत्यादिना प्रत्याहियन्ते सक्षिप्यन्ते वर्णा इति व्युत्पत्तेरिति भाव । नच अणुदित्सूत्रसिद्धासु अ इ उ इत्यादि सज्ञास्वतिप्रसङ्ग शक्य । योगरूढयाश्रयणातू वैयाकरणप्रसिद्धिवशाच्च तथा रूढिरिति भाव