पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
बालमनोरमा

हल्संज्ञायाम्। ‘हलन्त्यम्’ (सू १) । उपदेशेऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम् । ततः ‘अण्’ ‘अच्’ इत्यादिसंज्ञासिद्धौ ।

३ । उपदेशेऽजनुनासिक इत । (१-३-२)


भाविना वर्णना सज्ञेत्येव लभ्येत । ततश्च हल्प्रत्याहारे अकारादीनामपि ग्रहण स्यात् । अन्त्यलकारात्पूर्वभावित्वाविशेषात् । अन्त्येनेत्यभावे तु आदिरिता सहोच्चार्यमाण आदे ऊर्ध्द्वभाविना वर्णाना सज्ञेत्येव लभ्येत । ततश्च अच्प्रत्याहारे हकारादीनामपि ग्रहणापत्ति । आदेरकारादूर्ध्द्वभावित्वाविशेषात् । उभयोपादाने तु मध्द्यगानामिति लभ्येत इत्यदोष । परस्मिन् सति यस्मात्पूर्वो नास्ति स आदि । पूर्वस्मिन् सति यस्मात्परो नास्ति सोऽन्त्य इति भाष्ये आद्यन्तशब्दार्थनिर्वचनेन आद्यन्तयोर्मद्यगाविनाभूतत्वेन ताभ्या मध्द्यगानामाक्षेपात् । यद्यपि द्वयोरप्याद्यन्तशब्दौ सम्भवत । उक्त्तनिर्वचनाविरोधात् । तथापि नेह द्वयोराद्यन्तशब्दौ भवत । तथा सति हि अन्त्येनेता सह उच्चार्यमाण आदि स्वस्य आदे सज्ञेत्येव लभ्येत । उक्तरीत्या स्वशब्देन अन्त्यस्य परामर्शासम्भवात् । ततश्च उण् इत्युकारस्य सज्ञेति पर्यवस्येत् । तत्र एकस्य वर्णस्य वर्णद्वयात्मकसज्ञाविधान व्यर्थमापद्येत । गौरवात् । प्रत्याहाराणा व्यवहारलाघवार्थत्वात् । अतो मध्द्यमसत्व एवात्र, आद्यन्तशब्दाविति, ताभ्या मद्यगानामिति, लभ्यते । इतेति । किं अम् प्रत्याहार ञमडणेति मकारेण माभूत् । नचैवमपि सुट् प्रत्याहार टा इति टकारेण किं न स्यात् । टान्तसमुदायापेक्षया तस्य अन्त्यत्वादिति वाच्यम् । प्रथमातिक्रमणे कारणाभावेन सुट्प्रत्याहारस्य औटष्टकारेणैव ग्राह्यत्वात् । उक्त च जैमिनिना । प्रथम वा नियम्येत कारणस्यानतिक्रमात् । इति । विस्तरभयाद्विरम्यते । इति हल्संज्ञायामिति ॥ हल्सूत्रे लकारस्य हलन्त्यमित्यावृत्तप्रथमसूत्रेण इत्सज्ञाया सत्यामादिरन्त्येनेति हल्सज्ञासिद्धौ चतुर्दशसूत्रयामन्त्यणकारादिवर्णाना हल्त्व सिद्धमित्यर्थे । तत किमित्यत आह । हलन्त्यम् ॥ आवृत्तयोर्द्वितीय सूत्रमेतत् । हल् अन्त्यमिति च्छेद । हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति । अन्त्यमिति नपुसकसामानाधिकरण्यात् । उपदेशेऽजनुनासिक इदिति पूर्वसूत्रादुपदेश इति इदिति चानुवर्तते । तदाह । उपदेशेऽन्त्यमित्यादिना ॥ वातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम् । अथ कोऽयमुपदेशो नाम । तदाह । उपदेश आद्योच्चारणमिति ॥ उपशब्द आद्यर्थक । दिशिरुच्चारणक्रियायाम् । भावे घञिति भाव । एतच्च आदेऽच उपदेशे इत्यादि सूत्रे भाष्ये स्पष्टम् । धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशा प्रकीर्तिता । इति । प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता । उपदेशे किम् । इदमस्थमुरिति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्सज्ञा माभूत् । तदेव हलन्त्यमित्यावृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्यामन्त्यणकारादिवर्णाना इत्सज्ञा सिद्धेति स्थितम् । तत किमित्यत आह । ततः अण् अच् इत्यादिसंज्ञासिद्धाविति ॥ तत णकारादीनामित्सज्ञासिध्द्यनन्तर आदिरन्त्येनेत्यणादिसज्ञा सिद्धेत्यर्थ। लण्सूत्रे अकारश्चेति प्रतिज्ञात । तस्य अकारस्य अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्सज्ञायामप्राप्ताया तत्प्रापक सूत्रमाह । उपदेशे ॥ सज्ञाप्रस्तावात्सज्ञेति