पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

M A J Tirumalar Iyengar, M A , L T

Hindu High School , Triphcane Madras


॥ श्रीगुरुचरणारविन्दाभ्यां नम ॥

सिद्धान्तकौमुदीसहिता

॥ बालमनोरमा ॥


येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ १ ॥
येन धौता गिरः पुसां विमलैश्शब्दवारिभि ।
तमश्चाज्ञानजं भिन्न तस्मै पाणिनये नम ॥ २ ॥
वाक्यकारं वररुचि भाष्यकारं पतञ्जलिम् ।
पाणिनि सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम् ॥ ३ ॥
मुनित्रयं नमस्कृत्य तदुक्ती परिभाव्य च ।
वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥ ४ ॥

स जयति दिव्यनटेशो नृत्यति योऽसौ चिदम्बरसभायाम् ।
पाणिन्याद्या मुनयो यस्य च दयया मनोरथानभजन् ॥ १ ॥
अस्तु नम पाणिनये भूयो मुनये तथास्तु वररुचये ।
किञ्चास्तु पतञ्जलये शब्दब्रह्मात्मने च धूर्जटये ॥ २ ॥
व्याख्याता बहुभिः प्रौढैरेषा सिद्धान्तकौमुदी ।
वासुदेवस्तु तद्व्याख्यां वष्टि बालमनोरमाम् ॥ ३ ॥

 ओ मङ्गळादीनि मङ्गळमध्यानि मङ्गळान्तानि च शास्त्राणि प्रथन्ते । वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च वृद्धियुक्ता यथा स्युरिति वृद्धिसूत्रस्थभाष्यादिस्मृतिसिद्धकर्तव्यताक ग्रन्थादौ कृत मङ्गळ शिष्यशिक्षायै ग्रन्थतो निबध्नन् प्राचीनग्रन्थैरगतार्थता विषयप्रयोजनसम्बन्धाधिकारिणश्च सूचयन् चिकीर्षित प्रतिजानीते । मुनित्रयमिति श्लोकेन । इय वैयाकरणसिद्धान्तकौमुदी विरच्यत इत्यन्वय । इयमिति ग्रन्थरूपा वाक्यावालिर्विवक्षिता ।