पुटमेतत् सुपुष्टितम्
M A J Tirumalar Iyengar, M A , L T
Hindu High School , Triphcane Madras
॥ श्रीगुरुचरणारविन्दाभ्यां नम ॥
सिद्धान्तकौमुदीसहिता
॥ बालमनोरमा ॥
- येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
- कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ १ ॥
- येन धौता गिरः पुसां विमलैश्शब्दवारिभि ।
- तमश्चाज्ञानजं भिन्न तस्मै पाणिनये नम ॥ २ ॥
- वाक्यकारं वररुचि भाष्यकारं पतञ्जलिम् ।
- पाणिनि सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम् ॥ ३ ॥
- मुनित्रयं नमस्कृत्य तदुक्ती परिभाव्य च ।
- वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥ ४ ॥
- स जयति दिव्यनटेशो नृत्यति योऽसौ चिदम्बरसभायाम् ।
- पाणिन्याद्या मुनयो यस्य च दयया मनोरथानभजन् ॥ १ ॥
- अस्तु नम पाणिनये भूयो मुनये तथास्तु वररुचये ।
- किञ्चास्तु पतञ्जलये शब्दब्रह्मात्मने च धूर्जटये ॥ २ ॥
- व्याख्याता बहुभिः प्रौढैरेषा सिद्धान्तकौमुदी ।
- वासुदेवस्तु तद्व्याख्यां वष्टि बालमनोरमाम् ॥ ३ ॥
ओ मङ्गळादीनि मङ्गळमध्यानि मङ्गळान्तानि च शास्त्राणि प्रथन्ते । वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च वृद्धियुक्ता यथा स्युरिति वृद्धिसूत्रस्थभाष्यादिस्मृतिसिद्धकर्तव्यताक ग्रन्थादौ कृत मङ्गळ शिष्यशिक्षायै ग्रन्थतो निबध्नन् प्राचीनग्रन्थैरगतार्थता विषयप्रयोजनसम्बन्धाधिकारिणश्च सूचयन् चिकीर्षित प्रतिजानीते । मुनित्रयमिति श्लोकेन । इय वैयाकरणसिद्धान्तकौमुदी विरच्यत इत्यन्वय । इयमिति ग्रन्थरूपा वाक्यावालिर्विवक्षिता ।