पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
७१९
बालमनोरमा

उचैःकृत्य-उचैः कृत्वा । उचै:कारमप्रियमाचष्टे । नीचैःकृत्य-नीचैः कृत्वा-नीचै:-

३३८२ । तिर्यच्यपवर्गे । (३-४-६०)

तिर्यक्छब्द उपपदे कृञ्जः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम् । तिर्य कृत्य गतः । तिर्यकारम् । समाप्य गत इंत्यर्थ । “अपवर्गे' किम् । तिर्यकृत्वा -

३३८३ । स्वाङ्गे तस्प्रत्यये कृभ्वोः । (३-४-६१)

मुखतःकृत्य गतः । मुरवतः कृत्वा । मुखत: कारम् । मुखतोभूय । मुखतो भूत्वा । मुखताभावम् ।

३३८४ । नाधार्थप्रत्यये च्व्य र्थे । (३-४-६२)

नाधाथेप्रत्ययान्ते चच्व्यथेविषय उपपदे कृभुवोः क्त्वाणमुलौ स्त । अनाना नाना कृत्वा नानाकृत्य-नाना कृत्वा-नानाकारम् । विनाकृत्य-विना कृत्वा-विनाकारम् । नानाभूय-नाना भूत्वा-नानाभावम् । अनेकं द्रव्यमेकं भूत्वा एकधाभूय-एकधा भूत्वा-एकधाभावम् । एकधाकृत्य-एकधा कृत्वा एकधाकारम् । 'प्रत्ययग्रहणम्’ किम् । हिरुकृत्वा । पृथग्भूत्वा ।

३३८५ । तूष्णीमि भुवः । (३-४-६३)

तूष्णींशब्दे उपपदे भुवः क्त्वाणमुलौ स्तः । तूष्णींभूय-तूष्णीं भूत्वा तूष्णींभावम् । भूग्रहणं कृञ्जो निवृत्त्यर्थम् ।


न्यतरस्याम्' इति समासविकल्प मत्वा आह । उचैःकृत्य-उछेः कृत्वेति ॥ समासपक्षे ल्यविति भाव । उचैःकारमिति । अत्र समासतदभावयोनस्ति विशेषः । खरे तु विशेष । तिर्यच्यपवर्गे ॥ 'तिरश्चीति भवितव्यम् सौत्रो निर्देश' इति भाष्यम् । अपवर्ग इत्यस्य विवरणम्-समाप्ताविति ॥ स्वाङ्गे तस्प्रत्यये ॥ पञ्चम्यर्थे पष्टीद्विवचनम्। तस् प्रत्ययेो यस्मादिति बहुव्रीहिः । तस्प्रत्ययान्ते स्वाङ्गे उपपदे कृओो भुवश्च काणमुलावित्यर्थः । इह न यथासङ्खयं व्याख्यानात् । नाधार्थ ॥ “विनञ्भ्यान्नानाजौनसह' इति सूत्रे असहत्वे विन अभ्यान्नाप्रत्ययो विहितः । “सङ्खयाया विधाथ धा' इति धाप्रत्यया वाहत । तस्य अथ इव अर्थो यस्य सः धार्थः । नाप्रत्ययो धार्थकश्च प्रत्ययेो यस्मादिति बहुव्रीहिः । तदाह । नाधार्थप्रत्ययान्ते इति ॥ नाप्रत्ययान्ते धाथप्रलययान्त उपपदे इत्यर्थः । अर्थग्रहण धा प्रत्ययमात्रेऽन्वेति । तेन धमुओोऽपि ग्रहणं लभ्यते । नाप्रत्यये त्वर्थग्रहणन्नान्वेति । नाप्रत्ययान्ते धार्थप्रत्ययान्ते च्व्यन्तविषये उपपदे इत्यर्थः । अत एव भाष्ये अर्थग्रहणङ्किम् । द्विधाकृत्य द्वैधकृत्येत्येवोक्तम् । तूष्णीमि भुवः ॥ ननु ‘स्वाङ्गे तस्प्रत्यये कृभ्वोः' इत्यतः अनुवृत्यैव