पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१८
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

इति द्वित्वं तु न भवति । समासेनैव स्वभावतस्तयोरुक्तत्वात् । यद्यप्याभीक्ष्ण्यं णमुलुक्त एव, तथापि असति ह्यासेवार्थकणमुलि आभीक्ष्ण्यणमुलः “तृतीया प्रभृतीनि' इत्यत्र संग्रहाभावान् उपपदमंज्ञार्थमासेवायामिह पुनविधिः । गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रवेशाम । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुप्र पातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तख्य च पर्यायेण द्वित्वम् ।

३३७९ । अस्यतितृपोः क्रियान्तरे कालेषु । (३-४-५७)

क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमाना दस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेपूपपदेषु णमुल्स्यान् । चहात्यासं गा पाययति । ऋद्यहमत्यासम् । ऋचहतर्षम् । द्यहं तर्पम् । अत्यसनेन तषेणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा ऋद्यहमतिक्रम्य पुन: पाययतीत्यर्थः ।

३३८० । नाम्न्यादिशिग्रहोः । (३-४-५८)

द्वितीयायामित्येव ! नामादेशमाचष्टे । नाग्मग्राहमाह्वयति ।

३३८१ । अव्ययेऽयथाभिप्रेताख्याने कृञ्जः क्त्वाणमुलौ।(३-४-५९)

अयथाभिप्रेताख्यानं नाम अप्रियख्योचैः प्रियख्य च नीचै. कथनम् ।

नित्यवीप्सयोरिति द्विन्वन्तु न भवतीति । कुत इयत आह । समासेनैत्रेति । ननु समासेन कथमिह कथन व्याrत्यासेवयोरित्यत आह । स्वभावन इति । ननु ‘आभीक्ष्ण्ये णमुल् च' इत्यनेनैव सिद्धत्वान् इह आमेवाग्रहण व्यर्थम् । न च कानिवृत्ति फलमिति शङ्कयम् । चकाप्रत्ययस्यापि पक्षे इष्टत्वादिति शङ्क.ते । यद्यपीनि ॥ रामाधत्त तथापीति । द्विती यान्तस्योपपदसज्ञार्थमित्यर्थ । नन्विह आसेवाग्रहणाभाव तत्रोपपदमित्युपपदसज्ञा कुतो नेल्यत आह । असति हीति । यद्यप्यासेवाया णमुलुविध्यभावेऽपि ‘आभीक्ष्ण्ये णमुल् च' इति णमुल् मिश्यात, तथापि ‘आभीक्ष्ण्ये णमुल्च' इति सूत्रे द्वितीयान्तख्य सप्तम्या निर्देशेन ग्रहणाभावा दुपपदसज्ञा न स्यात् । ततश्च तृतीयाप्रतीन्यन्यतरस्याम्’ इति उपपदसमासविकल्पो न स्यादिति भाव । असमासे त्विति । व्याप्तिणमुलि गेहस्य व्याप्यमानत्वात् द्वित्वम् । आसेवाया णमुल तु णमुलन्तस्य द्वित्वम् । क्रियापन पुन्यस्यव आसवात्वादात भाव । अस्यातत्तृषा ॥ ह्यहात्यासमिति ॥ ह्यहमतिक्रम्येत्यर्थः । अतिपूर्वादस्यतेर्णमुलु । ह्यहतर्षमिति ॥ द्यहन्तृष्णावती कृत्वत्यर्थ । नान्यदिशिग्रहाः ॥ नात्रि आदिशिग्रहोरिति छेद । पञ्चम्यर्थे षष्ठी । द्वितीयान्ते नामन्शब्दे उपपदे आङ्पूर्वकदिशे ग्रहधातोश्च णमुलित्यर्थ अव्ययेऽयथाभि । अप्रियस्य नीचै. कथन प्रियस्योचै' कथनञ्च अभिप्रेतम् इष्टम् । तद्वि परीतम् अनभिप्रेतम् । तदाह । अयथाभिप्रेताख्यानं नामेत्यादि । ‘तृतीयाप्रभृतीन्य