सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१०
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

क्त्वाणमुलौ वा स्तः । अग्रे भोजं व्रजति । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथम भुक्त्वा । पूर्वं भोजम्-पूर्व भुक्त्वा । पक्षे लडादयः । अग्रे भुङ्गे तो ब्रजति । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः । अग्रे

३३४६ । कर्मण्याक्रोशे कृञ्जनः खमुञ् । (३-४-२५)

कर्मण्युपपदे आक्रोशे गम्ये कृव्यः खमुञ् स्यात् । चौरंकारमाक्रोशति । करोतिरुचारणे । चौरशब्दमुचार्येत्यर्थः ।

३३४७ । स्वादुमि (णमुल् ) (३-४-२६)

स्वाद्वथषु कृञ्जा णमुल्ख्यादकककया: पूर्वकालं । स्वादुशव्दस्य मान्तत्व निपात्यते । अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्गे स्वादुकारं भुङ्गे । संपन्नकारम् । लवणं कारम्। संपन्नलवणशब्दौ स्वादुपययौ। वाऽसरूपेण क्त्वापि। स्वादु कृत्वा भुङ्गे ।


एतच भाष्ये स्पष्टम् । प्रथमं भोजमिति । प्रथममिति क्रियाविशेषणम् । पूवे भोज मिति । पूर्वमिति क्रियाविशेषणम् । पक्षे इति । काणमुलौ तावदव्ययकृत्वाद्रावार्थकौ । यदा तु कर्तृविवक्षा तदा लडादय इत्यर्थ । ननु अग्रेप्रथमपूर्वपदधूपपदेषु काणमुलौ परत्वा दाभीक्ष्येऽपि ख्यातामित्यत आह । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेनेति । व्याख्यानादिति भावः । कर्मण्याक्रोशे ॥ कर्मणीत्युपपदनिर्देशः । आक्रोश इति द्योत्यार्थ इति मत्वा व्याचष्टे । कर्मण्युपपदे आक्रोशे गम्ये कृञ्जः खमुञ्जिति ॥ स्पष्टत्वात् न व्याख्येयमिति भावः । चौरङ्कारमिति । उपपदसमासे “अरुषिदजन्तस्य' इति मुम् । स्वादुमि णमुल ॥ स्वादु माल्यथप्रह्मणम् । व्याख्यानात् । तथा च स्वादुपयाय उपपद इात लभ्यत । ' कमण्याक्राश इति पूर्वसूत्रात् कृञ् इत्यनुवर्तते नतु खमुञ्, अस्वरितत्वात् । ततश्च ‘आभीक्ष्ण्ये णमुलू च इत्यत. णमुलित्यनुवर्तत समानकर्तृकयो “पूर्वकाले' इति सूत्रञ्च । तदाह । स्वाद्वर्थेष्वि त्यादिना । ननु स्वादुशब्दस्य स्वादावित्येव निर्देश उचित इत्यत आह । स्वादुशब्द स्येति ॥ नन्वत्र खमुजेवानुवर्तताम् । एवञ्च स्वादुमि मान्तत्वनिपातनमपि न कर्तव्यमित्या शङ्कय स्त्रियां च्व्यन्तमुदाहरति । अस्वाद्वीमिति ॥ यवागूमपूपिकामित्यादि विशेष्यम् । अत्र णमुलि विवक्षिते मान्तत्वे निपातिते उदन्तत्वाभावात् “ओतेो गुणवचनात्’ इति न डीप् । खमुजि कृते “अरुषित्' इति मुमि तु स्वाद्विङ्कारमित्येव प्रसज्येत । किञ्च च्व्यन्तस्या व्ययत्वात् “अरुषित्' इति मुम् दुर्लभः, तत्र मुम्विधौ अन ततश्व अस्वादु स्वादु कृत्वा भुङ्क्ते स्वादुङ्कारम्भुद्वे इत्यत्रापि मुम् न स्यात्, खमुआ खित्वस्य चोरङ्कारमित्यत्र सावकाशत्वात् । किञ्च ‘च्वौ' इति दीघांपत्ति । अतो णमुलि स्वादुशब्द मान्तत्वनिपातनमिति भावः । स्वादुमीत्यर्थग्रहणस्य प्रयोजनमाह । सम्पन्नङ्कारमिति ॥, अत्र “अस्य च्वौ इति ईत्वाभावोऽपि मान्तत्वनिपातनस्य फल बोध्यम् । स्वादुपर्यायाविति । वृत्यादिग्रन्थेषु