३२४६ । समुदोरजः पशुषु । (३-३-६९)
संपूर्वोऽजिः समुदाये उत्पूर्वश्च प्रेरणे तस्मात्पशुविषयकाद्प्स्यात् । अघञ्पोः’ इत्युक्तवभावो न । समजः पशूनां संघः । उद्जः पशूनां प्रेरणम् । पशुषु' किम् । समाजो ब्राह्मणानाम् । उदाजः क्षत्रियाणाम् ।
३२४७ । अक्षेषु ग्लहः । (३-३-७०)
अक्षशब्देन देवनं लक्ष्यते तत्र यत्पणरूपेण ग्राह्य तत्र ग्लहः’ इति निपात्यते । अक्षस्य ग्लह । “व्यात्युक्षीमभिसरणग्लहामदीव्यन्' । “ अक्षेषु' किम् । पादस्य ग्रहः ।
३२४८ । प्रजने सर्तेः । (३-३-७१)
प्रजन प्रथमगभग्रहणम् । गावामुपस्सरः । कथम् अवसरः प्रसरः इति । अधिकरणे “पुंसि संज्ञायाम्--' (सू ३२९६) इति घः ।
गम्ये इत्यर्थः । कन्याना प्रमदः कोकिलाना सम्मदः इत्युदाहरणम् । प्रसमोर्मदो हर्ष इत्येव सिद्धे निपातनं रूढिपरिग्रहार्थम् । समुदोरजः ॥ समुदोः अज इति च्छेदः । सम्, उत्, अनयो उपपदयोरित्यर्थः । अक्षेषु ग्लह ॥ अक्षशब्दे उपपदे इत्यर्थे अक्षेष्विति बहुवचनानुपपत्ति रित्यत आह । अक्षशब्देनेति ॥ लक्ष्यते इति ॥ प्रायेण देवनस्य अक्षसाध्यत्वादिति भावः । तत्रेति । देवने इत्यर्थः । पणरूपेणेति ॥ देवने जितवते पराजितेन देयं द्रव्य पण तेन रूपेण ग्राह्य यद्रव्य तस्मिन् कर्मणि 'ग्रह उपादाने' इति धातोः “ग्रहवृट्ट' इत्यप्प्रत्य यान्तः कृतलत्वो ग्लहशब्दो निपात्यते इत्यर्थ । ‘ग्रहू ग्रहणे' इत्यत्र तु ‘ग्लह च' इति पठितम् । तत्र ग्लहरप्प्रत्ययो निपात्यते । घञ्पवाद. । अक्षस्य ग्लह इति ॥ अक्षत्रक्रीडायां पणत्वेन ग्राह्यमित्यर्थः । “पणोऽक्षेषु ग्लहः” इत्यमरः । अत्र देवनत्वरूपेण देवनमक्षशब्दस्य लक्ष्यम् । न त्वक्षदेवनत्वेनेत्यभिप्रेत्योदाहरति । व्यात्युक्षीमिति ॥ माघकाव्यस्थामदम् । 'दिव स्तदर्थस्य' इतेि करणस्य कर्मत्वात् द्वितीया । अभिसरणग्लहां अभिसरणञ्चौर्यसुरतार्थमभि गमनम् । तदेव ग्लहः पणरूपेण ग्राह्य द्रव्य यस्याः तथाविधा व्यात्युक्षीम् । ‘उक्ष सेचने परस्परञ्जलसेचन व्यात्युक्षी तयेत्यर्थ । 'कर्मव्यतिहारे णच स्त्रियाम्' इति णच् । व्यत्युक्ष शब्दात् ‘णचःस्त्रियामञ्' इति स्वार्थे अञ् तद्धित. । आदिवृद्धि. । ‘टिड्ढ' इति डीप् । क्रीडाया ञ्जितवते पुंसे अभिसरणमेव पणत्वेन समयबन्ध कृत्वा प्रवृत्तन परस्परजलसेवनेन अक्रीडन्निति यावत् । अत्र जलक्रीडायामभिसरणात्मकपणस्य अक्षसाधनकत्वाभावेऽपि ग्लहरप् भवत्येव । सूत्रे अक्षशब्देन देवनसामान्यस्य विवक्षितत्वात् । अक्षक्रीडाया एव विवक्षितत्वे त्विह ग्लहे रप् न स्यादिति भावः । अक्षेषु किमिति । देवने किमित्यर्थः । पादस्य ग्रह इति ॥ वन्दनाद्यर्थमिति भावः । अत्र ग्रहधातोः “ग्रहवृट्ट' इत्यप् । न तु लत्वम् । ग्लहेतु घि पादस्य ग्लाह इत्येव । प्रजने सर्तेः ॥ प्रजनं प्रथमगर्भग्रहणमिति ॥ प्रशब्द आद्यर्थक ।