पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ]

प्रकरणम्]
६८१
बालमनोरमा

३२४९ । ह्वः संप्रसारणं च न्यभ्युपविषु । (३-३-७२)

निहवः । अभिहवः । उपहवः । विहवः । “एषु किम् । प्रह्वायः ।

३२५० । आङि युद्धे । (३-३-७३)

आहूयन्तेऽस्मिन्नित्याहवः । युद्धे' किम् । आह्वायः ।

३२५१ । निपानमाहावः । (३-३-७४)

आङ्पूर्वस्य ह्वयतेः संप्रसारणमव्वृद्धिश्चोदकाधारश्चेद्वाच्यः । “आहा वस्तु निपानं स्यादुपकूपजलाशये' ।

३२५२ । भावेऽनुपसर्गस्य । (३-३-७५)

अनुपसर्गस्य ह्वयतेः संप्रसारणमप्च स्याद्भावे । हव ।

३२५३ । हनश्च वधः । (३-३-७६)

अनुपसर्गाद्धन्तेर्भावे अप्स्यात् । वधादेशश्चान्तोदात्त । “वधेन दस्युम्' । ६८१

३२५४ । मूर्ती घनः । (३-३-७७)

मूर्तिः काठिन्यं तस्मिन्नभिधेये हन्तेरप्स्यात् । घनश्चादेशः । अभ्रघनः । कथम् “सैन्धवघनमानय’ इति । धर्मशब्देन धमी लक्ष्यते ।


प्रथम जायते इति भावे घञ् । 'जनिवध्योश्च' इति नोपधावृद्धिरिति भावः । प्रजनार्थकातू सृधातोरप् स्यादिति फलितम् । कथमिति ॥ उपसरणं प्रसरणमित्यर्थे प्रजनाप्रतीतेरबभावात् घानेि उपधावृद्धिः स्यादित्याक्षेपः । समाधत्ते । अधिकरण इति ॥ उपसरत्यस्मिन्निति प्रसर त्यस्मिन्निति च अधिकरणकारके कालेऽर्थे पुसि संज्ञायाङ्कः प्रायेण' इति घप्रत्यय इत्यर्थः । हृः सम्प्रसारणञ्च ॥ नि, अभि, उप, वि, एषु चतुर्षपपदेषु ह्ययतेरप् स्यात् सम्प्रसारणञ्च । घवोऽपवादः । निहव इति ॥ अप् । वस्य सम्प्रसारणमुकारः पूर्वरूप तस्य गुणावादेशौ । प्रह्वाय इति ॥ घजि वृद्यायादेशौ । आङि युद्धे ॥ आडि उपपदे ह्वयतेरप् सम्प्रसारणश्च युद्धे वाच्ये इत्यर्थः । निपानमाहावः ॥ आहाव इति निपात्यते । निपानञ्चद्वाच्यमित्यर्थः । फलितमाह । आङ्पूर्वस्येति ॥ हनश्च वधः ॥ चकार व्युत्क्रम । तदाह । वधा देशश्चेति ॥ अन्तोदात्त इति ॥ सूत्रे वध इत्यन्तोदात्तस्योच्चारणादिति भाव । यद्यपि स्वतन्त्रवधेरेव “घञ्जथे कविधानम्' इत्येव सिच्चति । तथाप्यनुपसर्गादिति विशेष वक्तुमिदम् । वस्तुतो वधिः स्वतन्त्रो नास्त्येवेति शब्देन्दुशेखरे । वधेन दस्युमिति ॥ ऋग्वेदस्थोऽय मन्त्रः स्वरप्रदर्शनाय पठित । घात इति ॥ “हनस्तोऽचिण्णलो.’ इति तत्वम् । 'चवजो: इति कुत्वम् । मूर्ती घनः ॥ अभ्रघन इति ॥ अभ्रस्य काठिन्यमित्यर्थ, भाव इत्यनुवृत्तेः । 86