सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७८
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

धानम्’ (वा २२०४) प्रस्थ । विन्नः । 'द्वत्वप्रकरणे के कृञ्जादीनामिति वक्तव्यम्' (वा ३४२९) । चक्रम् । चिकिदम् । चङ्कम: । (चक्रसः) ।

३२३५ । उपसर्गेऽद्ः । (३-३-५९)

अप्स्यात् ।

३२३६ । घञ्पोश्च । (२-४-३८)

अदेघेस्ल स्याद्वञ्यपि च । प्रघसः । विघस : । 'उपसर्गे' किम् । घास ।

३२३७ । नौ ण च । (३-३-६०)

नौ उपपदे देणैः स्याद्प्च । न्यादः । निघसः ।

३२३८ । व्यधजपोरनुपसर्गे । (३-३-६१)

अप्स्यात् । व्यध । जपः । उपसग तु, अाव्याधः । उपजापः मन्त्रभदः ।

३२३९ । स्वनहसोर्वा । (३-३-६२)


इच्छेत्यर्थःवशधातुः तथापि वष्टि प्रयुज्यते । यद्यपि छान्दसः । भागुरिरित्यादिप्रयोगात् लोकेऽपि इति भावः । रण इति ॥ रणन्ति शब्दायन्त अस्मिन्निति रणस्सङ्गामः । घञ्जअर्थे कवि धानामात ॥ वार्तिकमिदम् । “स्रापाव्यधिहनियुध्यर्थम्'इति वार्तिकशेषो भाष्ये पठित । प्रस्थ इति ॥ प्रतिष्ठन्तेऽस्मिन् धान्यानीति प्रस्थ । “ आतो लोप इटि च' इत्यालोपः । प्रस्रान्त्यस्मिन्निति प्रस्रः । प्रि पबन्त्यस्यामिति प्रपा । आविध्यन्यस्मिन्नित्याविधम् । “ग्रहिज्यावयि व्यधि' इति सम्प्रसारणम्, इति सिद्धवत्कृत्य आह । विा इति ॥ विहन्त्यस्मिन्मनांसीति विन्नः । गमहन' इत्युपधालोप. । ‘हो हन्ते' इति कुत्वम् । आयुध्यतेऽनेनेत्यायुधामत्यप्युदाहार्यम् । द्वित्वप्रकरणे इति ॥ “एकाचो द्वे प्रथमस्य ’ इति द्वित्वप्रकरणे इत्यर्थः । के कृञ्जादीना मिति ॥ कप्रत्यये परे कृञ्जादीना एकाच प्रथमस्य द्वे स्त इत्यर्थेथे । चक्रमिति ॥ ‘स्थास्रा इत्यस्य उपलक्षणत्वात् कृञ्ज क । क्रियते शत्रुवधः अनेनेति विग्रह । कित्त्वान्न गुणः । द्वित्वम् । अभ्यासकार्यम्। चिदिमिति ॥ क द्वित्वादि । चङक्रम इति । पूर्ववत् । उपसर्गेऽदः ॥ अद इति छेद । अप् स्यादिति शेष । उपसर्गे उपपदे अदधातोः अप् स्यादित्यर्थ । घो ऽपवादः । घञ्अपोश्च ॥ 'अदो जग्धि' इत्यत अद इति “लुड़सनोर्घस्ल' इत्यत. घस्ल इति चानुवर्तते । तदाह । अदेरिति । अपि चेति ॥ अप्प्रत्यये चेत्यर्थः । विधस इति ॥ अतिथिशिष्टमन्नमुच्यते । घास इति ॥ “शष्प बालतृण घासः' इत्यमर । नौ ण च ॥ णेति लुप्तप्रथमाकम् । निघस इति ॥ *घञ्जपोश्च' इति घस्लभावः । व्यधजपाः ॥ पञ्चम्यर्थे षष्ठी । अप् स्यादिति शेष व्यध, जप् आभ्यां अप् स्यात्, न तूपसर्ग इत्यर्थः । उपजापो मन्त्रभेद् इनि ॥ पैशुन्यमियर्थ । स्वनहसोर्वा ॥ पञ्चम्यर्थे षष्ठी ।