स्तवः । पवः ।
३२२९ । वृणोतेराच्छादुने । (३-३-५४)
वभाषा प्र इत्यव । प्रावारः-प्रवरः ।
३२३० । परौ भुवोऽवज्ञाने । (३-३-५५)
परेिभावः-परिभवः । * अवज्ञाने' किम् । सर्वतो भवनं परिभव ।
३२३१ । एरच । (३-३-५६)
चयः । जयः । 'भयादीनामुपसंख्यानं नपुंसके क्तादिनिवृत्त्यर्थम् (वा २१९७-९८) । भयम् । वर्षम् ।
३२३२ । ऋदोरप् । (३-३-५७)
ऋवर्णान्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः ।
३२३३ । वृक्षासनयोर्विष्टरः । (८-३-९३)
अनयोर्विपूर्वस्य स्रः षत्वं निपात्यते । विष्टरो वृक्ष आसनं च । “वृक्ष् इति किम् । वाक्यस्य विस्तरः ।
३२३४ । ग्रहवृद्वनिश्चिगमश्च । (३-३-५८)
अप्स्यात् । घञ्पचारपवादः । ग्रहः । वरः । दरः । निश्चयः । गम । वशिरण्योरुपसंख्यानम्’ (वा २२०३) । वश । रणः । “घञ्पर्थे कवि
वृणोतेराच्छादने ॥ प्रे उपपदे वृधातोर्घञ्वा स्यादाच्छादने इत्यर्थः । पक्षे 'ग्रहवृष्ट' इत्यम् । प्रावार इत ॥ पट इत्यर्थ । ‘उपसर्गस्य घजि’ इति दीर्घ. । परौ भुवोऽवज्ञाने ॥ परि इत्युपपदे अवहेळनवृत्तेर्भूधातोर्घञ् स्यादित्यर्थ । एरच् ॥ इवर्णान्ताद्धातो अच् स्यात् भावे अकर्तरि च कारके इत्यर्थ . । घञ्पवादः । भयादीनामिति ॥ भयादीना सिद्धये भीप्रभृतिधातुभ्य. अच्प्रत्ययस्योपसङ्खयानमित्यथे । ननु “एरच्' इत्येव सिद्धे भयग्रहण व्यर्थ मित्यत आह । नपुंसके क्तादिनिवृत्त्यर्थमिति ॥ आदिना ल्युडादिसङ्कहः । अन्यथा परत्वात् चकादयः स्यु । वाऽसरूपविधिस्तु नात्र भवति । अपवादत्वाभावादिति भाव । वर्षमिति । अत्र नपुंसके क्तल्युडादि बाधित्वा अचम् अपूर्वो विधीयते । ऋदोरप् ॥ पञ्चम्यर्थे षष्ठी । ऋत्, उ अनयोस्समाहारे सौत्र पुस्त्वम् । ऋदन्तादुवर्णान्ताच अप् स्याद्रावे अकर्तरि च कारके इत्यर्थ । घञ्जअपवादः । ग्रहवृदृ ॥ ग्रह, वृ, दृ, निश्चि, गम्, एषा द्वन्द्वः । अप् स्यादिति शेष. । घञ्प्रचोरिति । निष्पूर्वाचेचञ्ज. अजपवादः, इतरेभ्यस्तु घअपवाद इति विवेकः । वशिरण्योरिति । वार्तिक घञ्पवादः अप् । वश इति ॥ 'वश कान्तौ ।' भावे अप् ।