एषु विनोतेर्धञ् स्यात् । आदेश्च ककारः । उपसमाधानं राशीकरणं तच धात्वर्थः । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । निवासे । काशीनि कायः । चितौ । आकायममेिं चिन्वीत । शरीरे । चीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे, गोमयनिकाय । “एषु' किम् । चयः । “च: क:’ इति वक्तव्ये आदेरित्युक्तर्यड्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनःपुना राशीकरणमित्यर्थः ।
३२१४ । संघे चानौत्तराधर्ये (३-३-४२)
चेर्घञ् आदेश्च कः । भिक्षुनिकायः । प्राणिनां समूहः संघः । “ अनौ त्तराधये' किम् । सूकरनिचयः । स्तन्यपानादौ उत्तराधरभावेन शेरते । सङ्गे किम् । ज्ञानकर्मसमुचयः ।
३२१५ । कर्मव्यतिहारे णच्स्त्रियाम् । (३-३-४३)
स्रीलिङ्गे भावे णच् ।
३२१६ । णचः स्त्रियामञ् । (५-४-१४)
३२१७ । न कर्मव्यतिहारे । (७-३-६)
अत्र ऐज्न स्यात् । व्यावक्रोशी । व्यावहासी ।
‘अकर्तरि च कारके' इति भाव इति चानुवर्तते एव । अन्ये इति ॥ निवासचितिशरीरात्मका अर्था इत्यर्थः । उपाधिभूता इति । विशेषणभूता इत्यर्थ, अजपवाद. । काशीनिकाय इति ॥ निचीयते मोक्षोऽत्रत्यधिकरणे घञ् काशी मोक्षार्जनस्य निवास इत्यर्थः । *चजो कु घिण्यतोः' इत्यस्य अव्यवहितयोरेव चवजोः प्रवृत्तरिह कत्ववचनम् । आाकायमिति ॥ आचीयते इति कर्मणि घञ् । शरीरे इति ॥ उदाहरणसूचनमिदम् । समूहे इति ॥ उपसमाधानस्योदाहरणसूचनम् । निचीयते राशीक्रियते इति भावे घञ् । ननु निवास वितिशरीरोपसमाधानेषु चः क इत्येवास्तु । चकारस्य ककार इत्यर्थलाभादित्यत आह । चः क इति वक्तव्य इति ॥ पुनःपुना राशीति । अत्र 'रो रि' इति लोपे 'ढूलोप' इति दीर्घः । सङ्के चानौत्तराधये ॥ चेवर्घञ्जिति शेषपूरणमिदम् । चेवर्धञ् स्यात् सङ्के वाच्ये न त्वौत्त९॥धर्ये इत्यर्थः । उत्तराधरयोभवः औत्तराधर्यम् । प्राणिनां समूहः सङ्घ इति ॥ व्याख्यानमेवात्र शरणम् । कर्मव्यतिहारे ॥ कर्मव्यतिहारः क्रिया विनिमयः परस्परकरणम्, तस्मिन्विषये धातोर्णिच् स्यात् स्रीत्वे गम्ये इत्यर्थः । अत्र अकर्तरि च कारके इति तु नानुवर्तते, व्याख्यानादिति बोध्यम् । व्यावक्रोशीति ॥ परस्परं निन्दक इत्यर्थः । व्यावहासीति ॥ परस्परं हासक इत्यर्थः । उभयत्रापि 'णच