पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६७५
बालमनोरमा
        ३२१८ । अभिविधौ भाव इनुण् । (३-३-४४)

आदिवृद्धि ३२१९ ।

           अणिनुणः । (५-४-१५)

इनण्यनपत्ये' (सू १२४५) स्वभावतः पुंलिङ्गे, सांराविणं वर्तते ।

       ३२२० । आक्रोशेऽवन्योहः । (३-३-४५)

अव' इनि' एतयोहेर्घञ्स्यात् शापे । अवग्राहस्ते भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थ । “ आक्रोशे' किम् । अवग्रहः पदस्य । छेदः पदस्येत्यर्थः । निग्रहश्चोरस्य । निरोधश्चोरस्येत्यर्थः ।

        ३२२१ । प्रे लिप्सायाम् । (३-३-४६)

पात्रप्रग्राहेण चरति भिक्ष । अन्यत्र पात्रप्रग्रहः ।

     ३२२२ । परौ यज्ञे । (३-३-४७)

उत्तरः परिग्राहः । स्फ्येन वेदेः स्वीकरणम् ।

  ३२२३ । नौ वृ धान्ये । (३-३-४८)

स्त्रियामञ्’ इति स्वार्थिकोऽञ् तद्धितः । “टिडढ' इति डीप् । अभिविधौ ॥ कात्स्न्येन सम्बन्धः अभिविधिः । तस्मिन् गम्ये इनुय् स्यात् भावेऽथे इत्यर्थः । अणिनुण इत्यनेन सूत्रेण इनुणन्तात् अण् तद्धितः स्वार्थिक इत्यर्थः । अादवृद्धाररात । तद्धितेष्वचामादे रित्यनेनेति शेषः । साराविन् अ इति स्थिते “नस्तद्धिते' इति टिलोपमाशङ्कय प्रकृतिभाव स्मारयति । इनण्यनपत्य इति ॥ स्वभावत इति ॥ लोकाश्रयत्वालिङ्गस्येति भाव । आक्रोशेऽवन्योहः ॥ एतयोरिति ॥ उपपदयोरिति शेष । 'ग्रहदृनिश्चिगमश्च इत वक्ष्यमाणस्य अप्रत्ययस्यापवाद । अवग्रह इत्यस्य विवरणम् । छेदः पदस्येति ॥ युरोहितमित्यादिसमस्तपदख्य पुरः हितमित्यादि विभज्य पठनमवग्रह इत्यर्थः । अत्र शापानव गमान्न घञ् । निग्रह इत्यस्य विवरणम् । निरोधश्चोरस्येति ॥ प्रे लिप्सायाम् ॥ प्र इत्युपपदे ग्रहधातोर्घञ् स्यात् लिप्सायामित्यर्थ । ‘ग्रहवृदृनिश्चिगमश्च' इत्यपोऽपवादः । पात्रप्राहेण चरति भिक्षुरिति ॥ भिक्षालाभायेति गम्यते । अन्यत्रेति ॥ लिप्सा यामगम्यायामित्यर्थः । परौ यज्ञे ॥ परि इत्युपपदे प्रहधातोर्घञ् स्यात् यज्ञे प्रयुज्यमाने इत्यर्थः । ‘ग्रहृदृ’ इत्यपोऽपवादः । उत्तरः परिग्राह इति ॥ “वसवस्त्वा” इत्यादिमन्त्रैः पूर्वः परिग्राहो वेदेरुक्तः । तदपेक्षया द्वितीय इत्यर्थः । स्पयेनेति ॥ स्फयः खङ्गाकृतिः दारुमय विशेषः । तेन समन्तालेखया वेदिदेशस्य स्वीकरण परिग्राह इत्यर्थः । नौ वृ धान्ये ॥ नि