प्रकाशः । “नोदात्तोपदेश-' (सू २७६३) इति न वृद्धिः । शम । आचमा देस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ।
३१८६ । अकर्तरि च कारके संज्ञायाम् । (३-३-१९)
कर्तृभिन्ने कारके घञ्स्यात् । ३१८७ । घमि च भावकरणयोः (६-४-२७)
रजेर्नलोपः स्यात् । राग । “ अनयोः किम् । रज्यत्यस्मिन्रङ्ग । प्रास्यत इति प्रास : । “ संज्ञायाम्' इति प्रायिकम । को भवता लाभो लब्ध । इत उत्तरं “भावे' ' अकर्तरि कारके' इति *कृत्यल्युटो बहुलम्' (सू २८४१) इति यावद्वयमप्यनुवर्तते ।
३१८८ । स्यदो जवे । (६-४-२८)
स्यन्देर्घञ्पि नलोपो वृद्ध-यभावश्च निपात्यते । स्यदो वेग: । अन्यत्र
३१८९ । अवोदैधौद्मप्रश्रथमिश्रथाः । (६-४-२९)
आचाम इति । अनाचमेरिति पर्युदासान्न वृद्धिनिषेध इति भावः । अपाणिनीयमिति ॥ “नोदात्तोपदेशस्य' इति वृद्धिनिषेधादिति भावः । अवकर्तरि ॥ कारक इति प्रत्ययार्थनिर्देश । न तूपपदम् । व्याख्यानात् । सज्ञाशब्देन रूढिर्विवक्षितः । तेन राग इति वक्ष्यमाणमुदाहरण सङ्गच्छते । घञ्जि ॥ ‘अनिदिताम्’ इति नलोपप्रकरणे ‘रज्ञेश्च' इत्युत्तरमिद सूत्रम्। तदाह । रडेजर्नलोपः स्यादिति ॥ सूत्रे शेषपूरणमिदम् । राग इति ॥ 'चजेोः कु घिण्ण्यतो: इति जस्य ग, नलोपे कृते उपधावृद्धिः रञ्जनक्रियेत्यर्थः, रञ्जनद्रव्य वा । प्रास्यत इति ॥ प्रपूर्वात् ‘असु क्षपणे' इत्यस्मात् ‘अकर्तरि च' इति करणे घनि प्रास इति रूपमित्यर्थः । प्रास्यन्ते क्षिप्यन्ते शत्रवाऽननेति प्रासः आयुधविशेषः । प्रायिकमिति ॥ स्पष्टमिद भाष्ये । ततश्च असज्ञायामपि कचिदय घञ् भवतीति भाव । तदाह । की भवतेति ॥ लाभ इति ॥ भावे घञ् । क• लाभ हिरण्यादिप्राप्तिरूपः लब्ध. सम्पन्न इत्यर्थ . । भवतेत्यस्य लब्ध इत्यत्रान्वयात् 'नलोक' इति षष्ठी निषेध. । अनुवर्तत इति । अत्र व्याख्यानमेव शरणम् । स्यन्दू प्रस्रवणे' इत्यस्मात् “ अकर्तरि च' इति घात्रि क्डिदभावात् “ अनिदिताम्' इति नलोपो न प्राप्तः । तत्र स्यन्देश्चेत्युक्तौ यद्यपि नलोपस्सिद्यति । तथापि कृते नलोपे उपधावृद्धिः स्यात् । तत्र नलोपमुपधावृच्द्यभावश्च प्रापयितुमाह । स्यदो जवे ॥ स्यदो वेग इति ॥ वेगे रूढोऽयम् । अन्यत्रेति ॥ प्रस्रवणे इत्यर्थ । अवोदैधौझा ॥ अवोद, एध, ओद प्रश्रथ, हिमश्रथ, एषा द्वन्द्व । अवोद इति ॥ घञ्जि नलोपो निपात्यते । कृते नलोपे