पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६६७
बालमनोरमा
         ३१८२ । पद्रुजविशस्पृशो घञ् । (३-३-१६)
 
   भविष्यतीति निवृत्तम् । पद्यनेऽसौ पादः । रुजतीति रोगः । विशतीति

वेशः । स्पृशतीति स्पर्श

            ३१८३ । सृ स्थिरे । (३-३-१७)
   स्' इति लुप्तविभक्तिकम् । स्थिरे कर्तरि स्मर्तेः घञ्स्यान् । सरति

कालान्तरमिति सार । * व्याधिमत्स्यवलेपु चेति वाच्यम् । (वा २१७४) अतीसारो व्याधि । “उपसर्गस्य' इति दीर्घः । अन्तर्भावितण्यर्थोऽत्र सरति । रुधिरादिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्य : । ‘सारो बले ढांशे च ।

                ३१८४ । भावे । (३-३-१८)
  सिद्धावस्थापन्न धात्वथ वाच्य धाताघ-स्यान् । पाकः । पाचका ।
           ३१८५ ।। स्फुरतिस्फुलत्योर्धञ् ि । (६-१-४७)
  अनयोरेच आत्वं स्याद्धञ्जि । स्फारः । स्फालः । : उपसर्गस्य घञ्-ि

(सू १०४४) इति दीर्घः । परीहारः । 'इकः काशे' (सू १०४५) । काशे उत्तरपदे इगन्तस्यैव प्रादेदीर्घः स्यान् । नीकाशः अनूकाश । 'इक:’ किम् ।


बोध्यम् । एदरुज ॥ कर्तरीलेयव । पद्यतेऽसाविति ॥ करणस्याप्यत्र विवक्षातः कर्तृत्वम् । एरच्' इत्यतः प्राक् घअधिक्रियते । रसृ स्थिरे ॥ लुप्तविभक्तिकमिति ॥ लुमपञ्चमीक मित्यर्थ.। स्थिरे कर्तरीति ॥ स्थिरे इति कर्तृविशेषणम् । न तूपपदमिति भाव । सर्तेरिति ॥ भ्वादेर्जुहोत्यादेश्च ग्रहणम्, न तु जुहोत्यादेरेव, व्याख्यानात् । तदाह । सरति कालान्तररामात सार इति ॥ अर्धचीदिपाठात् पुस्त्व कृीबत्वञ्च । अत एव च स्थिर इति नोपपदम् । व्याश्रीति ॥ वार्तिकमस्थिरार्थम् । सारो बल इति ॥ भाष्ये तु बले खदिरमार इत्यु दाहृतम् । भावे ॥ भावी भावना क्रिया सा च धातुत्वन सकलधातुवाच्यत्याद मूलव्याख्या वसरे सर्वधातुवाच्य क्रियासामान्य तद्विदेशषः पाकादिश्च धातुविशेषवाच्य. । तत्र क्रियासामान्य भावशब्दार्थ । तिड़ाच्य लिङ्गसङ्खयान्वयायोग्य साध्यावस्थापन्नम् । कृद्वाच्यन्तु लिङ्गसङ्खयान्वय येोग्य सिद्धावस्थापन्नम्, कृदभिहितो भावो द्रव्यवत्प्रकाशत इति भाष्यादिति प्रपञ्चितम् । तदाह । सिद्धावस्थापन्न इत्यादिनाघञ्जिति ॥ ‘पदरुज' इत्यतस्तदनुवृत्तरिति भाव । इकः काशे । उत्तरपदे इति ॥ 'अलुगुत्तरपदे ' इत्यतस्तदनुवृत्तरिति भावः । ढूलोपे पूर्वस्य’ इत्यतो दीर्घ इत्यनुवर्तते । 'उपसर्गस्य घञ्जयमनुष्ये' इत्यतो घञ्जीति । तेनैव सिद्धे नियमार्थमिदम् । तदाह । इगन्तस्यैवेति ॥ दीर्घः स्यादिति ॥ घञ्जीति शेष ।