पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७७१
लिङ्गानुशासनप्रकरणम्।

११६. 'नपुसकम्' । अधिकारोऽयम् ॥ ११७ “भाव ल्युडन्त । हसनम् । “भाव' किम् । पचनेोऽनि । इधमत्रश्वन कुठारः ॥ ११८ * निष्ठा च ' । भावे या निष्ठा तदन्त कृीब स्यात् । हसितम् । गीतम् ॥ ११९ “त्वष्यऔौ तद्धितौ ' । शुकृत्वम्-। शाकल्यम् ष्यञ्जः षत्वसामथ्योत्पक्षे स्त्रीत्वम् । चातुर्यम्-चातुरी । सामय्यम्-सामग्री । ओचित्यम् ओचिती ॥ १२०. “कर्मणि च ब्राह्मणादिगुणवचनेभ्य:’ । ब्राह्मणस्य कर्म ब्राह्मण्यम् ॥ १२१ यद्यढग्यगञ्जण्वुञ्छाश्च भावकर्मणि' । एतदन्तानि कृीबानि । “स्तेनाद्यन्नलोपश्च' (सू १७९०) स्तेयम् । ‘सख्युर्य' (सू १७९१) । सख्यम् । 'कपिज्ञात्योढंक्' (सू १७९२) । कापेयम् । पत्यन्तपुरोहितादिभ्यो यक्' (सू १७९३) । आधिपत्यम् । ‘प्राणभृजातिवयोवचनोद्भात्रादि भ्योऽञ्' (सू १७९४) । औष्ट्रम् । “हायनान्तयुवादिभ्योऽणु’ (सू १७९५) । द्वैहायनम् । द्वन्द्वमनोज्ञादिभ्यो वुञ् । पितापुत्रकम् । 'होत्राभ्यश्छ:’ (सू १८००) । अच्छावाकीयम् । अव्ययीभाव’-’ (सू ६५९) । अधिस्त्रि ॥ १२२ 'द्वन्द्वैकत्वम्' । पाणिपादम् ॥ १२३ अभाषायां हमन्ताशाशरावहाररात्र चव ' । स्पष्टम् ॥ १२४ “ अनञ्कर्मधारयस्तत्पुरुष.' । अधिकारोऽयम् ॥ १२५ “अनल्पे छाया' । शरच्छायम् ॥ १२६. 'राजामनुष्यपूर्वा सभा' । इनसभमित्यादि ॥ १२७ . “सुरासेनाच्छायाशालानिशा स्त्रिया च' ॥ १२८. “परवत्' । अन्यस्तत्पुरुष' परवलिङ्गः स्यात् । “रात्राहाहा ' पुसि' (सू ८१४) ॥ १२९ . 'अपथपुण्याह नपुग्मकं ? ॥ १३०. 'सङ्खयापूर्वा रात्रि ' । त्रिरात्रम् । 'सङ्खयापूर्वा ? इति किम् । सर्वरात्र । १३१. * द्विगु स्त्रियां च ' । व्यवस्थया । पञ्चफली । त्रिभुवनम् ॥ १३२ *इसुसन्त ' । हबि. । धनु ॥ १३३ “अर्चिः स्त्रिया च' । इसन्तत्वेऽप्यर्चिः स्त्रिया नपुसके च स्यात् । इयमिदं वार्चिः ॥ १३४ “छदि. स्त्रियामेमच ' । इय छाद । छाद्यतेऽनेनेति छदेश्चुरादिण्यन्तात् अचिंशुचि-' इत्यादिना इस् । 'इस्मन्' इत्यादिना हस्व' । “पटल छांदः' इत्यमरः । तत्र पटलसाहचर्याच्छदिष. क्रुीबतां वदन्तोऽमरव्याख्यातार उपक्ष्या ॥ १३५ . “मुखनयनलेोहबन मासरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि'। एतेषामभिधायकानि कृीबे स्युः। मुखमाननम् । नयन लोचनम् । लोह कालम् । वन गहनम् । मासमामिषम् । रुधिरं रक्तम् । कार्मुक शरास नम् । विवर बिलम् । जल वारि । हल लाङ्गलम् । धनं द्रविणम् । अन्नमशनम् । अस्या पवादानाह त्रिसूत्र्या ॥ १३६. ‘सीरार्थदना पुसि' ॥ १३७ वक्रनेत्रारण्यगाण्डीवानि पुसि च' । वक्रो वक्रम् । नेत्रो नेत्रम् । अरण्योऽरण्यम् । गाण्डीवो गाण्डीवम् ॥ १३८ . “अटवी त्रियाम्' ॥ १३९. “लोपध' । कुलम्-कृलम् । स्थलम् ॥ . 'तूलोपलतालकुसूलतरल १४० कम्बलदेवलवृषलाः पुसि' । अय तूल ॥ १४१ * शीलमूलमङ्गलसालकमलतलमुसलकुण्डल पललमृणालवालबालनिगलपलालविडालखिलशूला पुसि च' । चात्कृीबे । इद शीलमित्यादि । १४२ . * शतादिः सङ्गया' । शतम् । सहस्रम् । “शतादि.’ इति किम् । एको द्वौ बहवः । सङ्खया' इति किम् । शतश्श्रृङ्गो नाम पर्वतः ॥ १४३. “शतायुतप्रयुताः पुंसि च' । अय शतः । इद शतमित्यादि ॥ १४४ “लक्षा कोटिः त्रियाम्' । इय लक्षा । इय कोटि । “वा लक्षा नियुत च तत्' इत्यमराहीबेऽपि लक्षम् । १४५. “शङ्कः पुंसि' । सहस्रः कचित् । अयं सहस्रः । इद सहस्रम् ॥ १४६. 'मन्द्यच्कोऽकर्तरि' । मन्प्रत्ययान्ता व्यचकः काबः स्यान्न तु