३९३४ । तिडो गोत्रादीनि कुत्सनाभीक्ष्ण्योः (८-१-२७) । तिङन्तात्पदाद्रेो त्रादीन्यनुदात्तान्येतयो. । पचति गोत्रम् । पचतिपचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथन प्रत्यायनादयः । कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् । तेनान्यत्रापि गोत्रादिग्रहणे कुत्सना दावेव कार्य ज्ञेयम् । “गोत्रादीनि-' इति किम् । पचति पापम् । ‘कुत्स-' इति किम् । खनति गोत्र समेत्य कूपम् ॥ ३९३५ । तिड्डतिडः (८-१-२८) । अतिङन्तात्पदात्पर तिङन्त निहन्यते । “अन्निमळे' । ३९३६ । न लुट् (८-१-२९) । लुडन्त न निहन्यते । श्व कर्ता ॥ ३९३७ निपातैर्यद्यदिहन्तकुविन्नेचेचण्कचिद्यत्रयुक्तम् (८-१-३०) । एतैर्निपातैर्युक्त न निह न्यते । “यदमे स्यामहत्वम्' । ‘युवां यदी कृथ ’ । 'कुविदङ्ग आसन् ’ । “अचित्तिभिश्चकृमा कचित्' । 'पुत्रासो यत्र पितरो भर्वन्ति' ॥ ३९३८ । नह प्रत्यारम्भे (८-१-३१) । नहेत्यनेन युक्त तिडन्त नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । ‘नह भोक्ष्यसे' । प्रत्यारम्भे' किम् । “नह वैतस्मॅिछेोके दक्षिणमिच्छन्ति' ॥ ३९३९ । सत्य प्रश्रे (८-१-३२) । सत्ययुक्त तिडन्त नानुदात्त प्रश्रे । सत्य भोक्ष्यसे । 'प्रश्रे' किम् । ‘सत्य मिद्वा उ त वयमिन्द्र स्तवाम ' ॥ ३९४० । अङ्गाप्रातिलोम्ये (८-१-३३) । अङ्गेत्यनेनन युक्त तडन्त नानुदात्तम् । अङ्ग कुरु । “ अप्रातिलोम्ये' किम् । “ अङ्ग कूजसि वृषल इदानी इज्ञास्यसि जाल्म' । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति ।॥ ३९४१ । हि च (८-१-३४) । हियुक्त तिङन्त नानुदात्तम् । “आ हि ष्मा याति' । आ हि रुहन्तम्' ॥ ३९४२ । छन्दस्यनेकमपि साकाङ्कम् (८-१ ३५) । हीत्यनेन युक्त साकाङ्कमनेकमपि नानुदात्तम् । “अनृत हि मत्तो वदति ' । 'पाप्मा न चैन पुनाति' । तिडन्तद्वयमपि न निहन्यते ॥ ३०४३ । यावद्यथाभ्याम् (८-१-३६) । आभ्या योगे तिडन्तं नानुदात्तम् । यावद्भदुद्धे 'चित्कण्व यथा मावतम्' ।। ३९४४ । पूजाया नानन्तरम् (८-१-३७) । यावद्यथाभ्यां युक्तमनन्तरं तिडन्तं पूजाया नानुदात्तम् । यावत्पचवात शोभनम् । यथा पचति शोभनम् । “पूजायाम्' किम् । यावद्रुझे ! “अनन्तरम्’ किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषि ध्यते ॥ ३९४५ । उपसर्गव्यपेत च (८-१-३८) । पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधा नार्थं वचनम् । यावत्प्रपचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचवात शोभनम् ॥ ३९४६ । तुपश्यपश्यताहैः पूजायाम् (८-१-३९) । एभिर्युक्त तिडन्त न निहन्यते पूजायाम् । आदहं खधामनु पुर्नर्गर्भत्वमरिरे' ॥ ३९४७ । अहो च (८-१४०) । एतद्योगे नानुदात्त पूजायाम् । अहो देवदत्त पचति शोभनम् ॥ ३९४८ । शेषे विभाषा (८-१-४१) । अहो इत्यनेन युचक तिङन्त वानुदात्त पूजायाम् । अहो कट करिष्यति ॥ ३९४९ । पुरा च परीप्सायाम् (८-१-४२) । पुरेत्यनेन युक्त वानुदात्त त्वरायाम् । अधीष्व माणवक पुरा विद्योतते विद्युत् । निकटागामिन्यत्र पुराशब्दः । “परीप्सायाम्' किम् । न त स्म पुराधीयते । चिरातीतेऽत्र पुरा ॥ ३९५० । नन्वित्यनुझैषणायाम् (८-१ ४३) । नन्वित्यनेन युक्तं तिडन्तं नानुदात्तमनुज्ञाविषयप्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । अनु-' इति किम् । अकार्षीः कट त्वम्। ननु करोमि । पृष्टप्रतिवचनमेतम् ॥ ३९५१ । कि क्रियाप्रश्रेऽनुपसर्गमप्रतिषिद्धम् (८-१-४४) । क्रियाप्रश्रे वर्तमानेन किंशब्देन युक्तं तिङन्त
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१२१
दिखावट