पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७६२
सिद्धान्तकौमुद्याम्

दन्तः । “उपरिस्थम्' किम् । अधिकरणम् ॥ ३९२३ । अनेोरप्रधानकनीयसी (६-२ १८९) । अनेोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठमनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधान. । प्रधानार्थ च कनीयोग्रहणम् । “अप्र-' इति किम् । अनुगतो ज्येष्ठोऽनुज्येष्ठ ॥ ३९२४ । पुरुषश्चान्वा दिष्ट. (६-२-१९०) । अनेोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्टः पुरुषोऽनुपुरुप । अन्वादिष्टः’ किम् । अनुगतः पुरुषोऽनुपुरुष. ॥ ३९२५ । अतेरकृत्पदे (६-२-१९१) । अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कशो नाग. । अतिपदा गायत्री । “अकृत्पदे किम् । अतिकारकः । “अतेर्धातुलोप इति वाच्यम्’ (वा ३८६३) । इह मा भूत् । शोभनो गाग्येऽतिगाग्र्यः। इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ॥ ३९२६ । नेरनिधाने (६-२-१९२) निधानमप्रकाशता । ततोऽन्यदनिधान प्रकाशनमित्यर्थः । निश्चित मूलं निमूलम् । न्यक्षम् । अनिधाने' किम् । निहितो दण्डो निदण्ड ॥ ३९२७ । प्रतेरश्वादयस्तत्पुरुषे (६-२-१९३) । प्रतेः परेऽश्वादयोऽन्तोदात्ताः । प्रतिगतोऽशुः प्रत्यशुः । प्रतिजन । प्रतिराजा । समासान्तस्या नित्यत्वान्न टच् ॥ ३९२८ । उपाट्टयजजिनमगौररादयः (-२-१९४) । उपात्पर यट्टयच्कमजिन चान्तोदात्तं तत्पुरुषे गाररादान्वजायत्वा । उपदवः । उपन्द्रः । उपाजनम् । 'अगारादय किम् । उपगौरः । उपतैषः । 'तत्पुरुषे' किम् । उपगत सोमोऽस्य स उपसोमः ॥ ३९२९ । सोरवक्षेपणे (६-२-१९५) । सुप्रल्यवसितः । सुरत्र पूजायामेव वाक्यार्थस्त्वत्र निन्दा असूयया तथाभिधानात् । “सोः किम् । कुब्राह्मण । “अवक्षेपणे' किम् । सुवृषणम् ॥ ३९३० । विभाषेोत्पुच्छे (६-२-१९६) । तत्पुरुषे । उत्क्रान्तः पुच्छादुत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयतेः “एरच्’ (सू ३२३१) उत्पुच्छः, तदा थाथादिखरेण नित्यमन्तोदात्तत्वे प्राप्त विकल्पाऽयम् । सयमुभयत विभाषा । “तत्पुरुष ' किम् । उदस्त पुच्छ यन स उत्पुच्छ ॥ ३९३१ । द्वित्रिभ्या पाद्दन्मूर्धसु बहुत्रीहौ (६-२१९७) । आभ्या परेष्वेष्वन्तोदात्तो वा । द्विपाचतुष्पाच रथाय' । “त्रिपादूर्धर्वः’ । द्विदन् । “त्रिमूर्धान सप्तरश्मिम्' । मूर्धन्नित्यकृत समासान्त एव मूधशब्दः । तस्यतत्प्रयाजनमसल्याप समासान्तेऽन्तोदात्तत्व यथा स्यात् । एतदेव ज्ञापकम् “अनित्यः सामासान्तो भवति' इति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्व पक्षे भवत्येव । द्विमूर्धः । त्रिमूर्धः । 'द्वित्रि भ्याम्' किम् । कल्याणमूर्धा । 'बहुव्रीहौ' किम् । द्वयोमूर्धा द्विमूर्धा ॥ ३९३२ । सक्थ चाक्रान्तात् (६-२-१९८) । गौरसक्थः । श्लक्ष्णसक्थः । “आक्रान्तात्’ किम् । चक्रसक्थः । समासान्तस्य षचश्चित्वान्नित्यमेवान्तोदात्तत्व भवति ॥ ३९३३ । परादिश्छन्दसि बहुलम् (६-२-१९९) । छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । “ अजिसक्थमालभेत' । अत्र वातकम्

'
परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते ।
'
पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुल ततः’ ॥ (वा ३८६८-६९)

इतेि । परादि । 'तुविजाता उंरुक्षयां ' । परान्तः । ‘नियेनं मुष्टिहत्यां' । “यत्रिचक्रः’ पूर्वान्तः । ‘विश्वायुधेहि ।–इति समासखराः