पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५००
[कृदन्त
सिध्दान्तकौमुदीसहिता

२८९९ । पाघ्राध्माधेट्दृशः शः । (३-१-१३७)

पिबतीति पिबः । जिघ्रः । धमः । धयः । धया कन्या । धेटष्टित्वात् स्तनन्धयी' इति खशीव डीप्प्राप्तः । “ खशोऽन्यत्र नेष्यते' इति हरदत्तः । पश्यतीति पश्यः । घ्रः सज्ञायां न (वा १९६७) । ‘व्याघ्रादिभिः-' (सू ७३५) इति निर्देशात् ।

२९०० । अनुपसर्गालिम्पविन्द्धारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च । (३-१-१३८)

शः स्यात् । लिम्पः । विन्दः । धारयः । पारयः । वेद्यः । उदेजयः । चेतयः । सातिः सुखार्थः । सौत्रो हेतुमण्ण्यन्तः । सातयः । वासरूपन्यायेन


पाघ्रा ॥ अत्र 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणम्’ इति मत्वा आह । पिब तीति पिब इति ॥ पाधातोश्शप्रत्यये तस्य शित्वेन सार्वधातुकत्वात् “पाघ्राध्मा' इति पिबादेशः । स चादन्त इत्युक्तम् । शप् पररूपम् । जिघ्र इति ॥ ‘पाघ्रा' इति घ्राधातोर्जिघ्रादेशः । धम इति । ध्माधातोर्धमादेश । धय इति ॥ धेधटश्शः, शप्, अयादेशः, पररूपमिति भावः । धया कल्येति । अत्र धट्धातुष्टित् स’ अदन्तो न भवति । यस्त्वदन्तो धयशब्दः स न टित्। अतोऽत्र 'टिड्ढाणञ्’ इति न डीबिति भावः । धेटष्टित्वादित्यारभ्य हरदत्तमतम् । स्तनन्धयीतीति ॥ स्तनशब्दे उपपदे धट्धातोः “नासिकास्तनयोः' इति स्वशि कृते खिल्यनव्ययस्य' इति मुमि स्तनन्धयशब्दः । तत्र खशि कृते धेटष्टित्वमाश्रित्य यथा 'टिड्ढाणञ्' इति डीप्, तथा धया कन्येल्यत्रापि डीप् प्राप्त । स डीप् खशोऽन्यत्र नेष्यते इति हरदत्त आहेत्यर्थः । वस्तुतस्तु 'टिड्ढाणञ्’ इति सूत्रे टिदाद्यवयवाकारस्यैव ग्रह्णमिति भाष्यविरोधादिदाचिन्त्यम् । नच टित्वसामथ्र्यदेव स्तनन्धयीशब्दात् डीबिति वाच्यम् । धया कन्येत्यत्रापि डीप्प्रसङ्गात् । खशेोऽन्यत्र नेष्यते इत्यत्र प्रमाणाभावात् । तस्मात् स्तनन्धयीत्य तस्य प्रामाणिकत्वे गौरादित्वङ्कल्प्यम् । डीष्यप्युदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाभावात् इति शब्दन्टुशेखरे स्थितम् । दृश: उदाहरति । पश्य इति ॥ “पाघ्रा' इति पश्यादेशः । घ्रस्संज्ञायां नेति ॥ घ्राधातोस्संज्ञायां ३शो नेत्यर्थः । कुत इत्यत आह । व्याघ्रा दिभिरिति ॥ अन्यथा व्याजिघ्रादिभिरिति निर्दिशेदिति भावः । अनुपसर्गात् ॥ श स्यादिति ॥ शषपूरणम् । लिम्पः, विन्द इति ॥ ‘लप उपदाहे, विद्ल् लाभे' इति तुदादौ ताभ्यां श’, ‘शे मुचादीनाम्’ इति नुम्। सूत्रे कृतनुमौ लिम्पविन्दौ निर्दिष्टौ । अतस्तौदादिकयोरेव ग्रहणम् । धारय इति ॥ “धृञ् धारणे, धृड् अवस्थाने' आभ्या हेतुमण्यन्ताभ्यां श:, शप्, गुणायादेशौ । पारय इति ॥ पृधातोः ण्यन्ताच्छः, शप् गुणायादेशौ । विद वेदनाख्यादिषु । चुरादिण्यन्ताच्छः । शप् गुणायादेशौ । उदेजय इति ॥ उत्पूर्वादेजधातोः ण्यन्ताच्छः । शप् गुणायादेशौ । चेतय इति ॥ * चिती संज्ञाने ' ण्यन्ताच्छ, शप्, गुणायादेशौ । एव