पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४९७
बालमनोरमा ।


प्रक्रन्ता । “कर्तरि' इति किम् । प्रक्रमितव्यम् । “ आत्मनेपद् -' इति किम् । सङ्कमिता । अनन्यभावे विषयशब्द । तन्न * अनुपसर्गाद्वा' (सू २७१६ ) इति विकल्पार्हस्य न निषेध । क्रमिता । तदर्हत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् । 'गमेरिट्-' (सू २४०१) इत्यत्र परस्मैपद्ग्रहणं तडानयोरभावं लक्षयति । सजिगमिषिता । एवं * न वृद्भयश्चतुभ्यैः’ (सू २३४८) विवृत्सिता । यङन्ताण्वुल् । अलोपस्य स्थानिवत्वान्न वृद्धिः ।

२८९६ । नन्द्ग्रिहिपचादिभ्यो ल्युणिन्यचः । (३-१-१३४)

नन्द्यादेल्र्युप्रैह्यादेणिनिः पचादेरच्स्यात् जनमर्दयतीति जनार्दन । मधु सूदयतीति मधुसूदनः । विशेषेण भीषयतीति


स्नुक्रमेोः' इति सूत्रस्थमिद वार्तिकम् । प्रक्रन्तेति ॥ 'प्रेोपाभ्या समर्थाभ्याम्' इत्यात्मनेन पदविषयोऽयम् । नन्वेवं सति क्रमितेत्यत्र कथमिडित्यब आह । अनन्यभावे विषयशब्द इति ॥ वर्तते इति शेषः । आत्मनेपदाविनाभाव इति यावत् । क्रमेः कर्तर्यात्मनेपदिन इलेतावतैव सिद्धेरयमर्थो लभ्यते इति भावः । तथाच नित्यमात्मनेपदिन इति फलितम्। तेनेति ॥ क्रामतेत्यत्र क्रमेः ‘अनुपसर्गाद्वा' इत्यात्मनेपदविकल्पविधानात् नित्यमात्मनेपदित्वाभावात् इण्नि षेधो नेत्यर्थः । मतान्तरमाह । तदर्हत्वमेवेति । आत्मनेपदार्हत्वमेवात्मनेपदविषयत्वम् । ततश्च आत्मनेनपदपक्षे इणुनिषेधे सति प्रक्रन्तेति रूपम् । आत्मनेपदाभावपक्षे तु क्रम इटि क्रमितेति रूपमिति केचिदाहुरित्यर्थ । अत्र पक्षे विषयपदस्य न प्रयोजनमित्यस्वरसः । ननु सञ्जिगमिषितेत्यत्र सनः कथमिट्, गमेरनिट्त्सु पाठात् सनः परस्मै पदपरत्वाभावेन 'गमेरिट् परस्मपदषु' इत्यस्याप्रवृत्तारत्यत आह । गमेरिडित्यत्रेति । एवमिति ॥ “न वृन्द्य श्रतुभ्यैः’ इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तडानयोरभावं लक्षयतीत्यर्थः । विवृत्सितेति ॥ वृतेस्सनि रूपम् । 'हलन्ताच' इति कित्वान्न गुणः । यङन्तादिति । पविधातोर्यडन्तात् पापच्येत्यस्मात् ण्वुलित्यर्थः । तस्य अकादेशे 'यस्य हल.’ इति यकारलोपे अतो लोपे पापच् अक इति स्थिते उपधावृद्धिमाशङ्कय आह । स्थानिवत्वान्न वृद्धिरिति । यङ्लुगन्ता त्विति । यडस्सङ्कातस्य लुक’ अजादेशत्वाभावेन स्थानिवत्त्वासम्भवादुपधावृद्धिार्निबधा । न धातुलोपः' इति निषेधस्तु न, यड्लुकः अनैमित्तिकत्वात् उपधावृद्धेरिलक्षणत्वाभावाच । नन्दिग्रहि ॥ नन्दि, प्रहि, पञ्च, एषां द्वन्द्वात्पञ्चमी । नन्दिग्रहिपचाः आदिर्येषामिति विग्रहः । आदिशब्दस्य प्रत्येकमन्वयः फलति । ल्यु, णिनि, अच्, एषां द्वन्द्वात्प्रथमा । यथासङ्खयमन्वयः । तदाह । नन्द्यादेरित्यादि । नन्दि इति ण्यन्तग्रहणम् । तदाह । नन्दयतीति नन्दन इति ॥ । ल्योरनादेशः, “णेरनिटि' इति णिलोप मधु सूद्यतीति ॥ मधुः असुरविशेषः, त सूदयति हन्तीति मधुसूदनः । ल्युः अनादेशः णिलोप ।