अनिटस्तु नियामक । ‘जनिवध्योश्च' (सू २५१२) । जनक । ‘वध हिंसायाम्'।
वधकः । “रधिजभोरचि' (सू २३०२) । रन्धक । जम्भकः । “नेट्यलिटि
रधेः' (सू २५१६) । रधिता-रद्धा । “मस्जिनशोः-' (सू २५१७) इति
नुम् । मङ्गा । नंष्टा-नशिता । “रभेरशब्लिटोः' (सू २५८१) । रम्भक ।
रब्धा । “लभेश्च' (सू २५८२) । लम्भकः । लब्धा । “तीषसह-' (सू
२३४०) । एषिता-एष्टा । सहिता-सोढा । दरिद्रातेरालोप । दरिद्रिता ।
'ण्वुलि न' । दरिद्रायकः । “कृत्यल्युटः-' (सू २८४१) इत्येव सूत्रमस्तु ।
यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन
कृन्मात्रस्यार्थव्यभिचारार्थम् । पादाभ्यां ह्रियते पाद्हारकः । कर्मणि ण्वुल् ।
‘क्रमेः कर्तयत्मनेपदविषयात्कृत इण्निषेधो वाच्य:’ (वा ४४२२, ४४२३) ।
डित्वान्न गुणः । अनिटस्त्विति ॥ तस्यानुदात्तोपदेशत्वादिति भाव । जनकः इत्यत्रो
पधावृद्धिमाशङ्कय वृद्धिनिषेध स्मारयति । जनिवध्योश्रेति ॥ वध हिंसायामिति ॥
धात्वन्तर भावादकम् । भवादराकृतिगणत्वात् । नत्वय हन्तवधादश । तथा सति ‘जनि
वध्योश्च' इति वृद्धिनिषेधसूत्रे वधिग्रहणवैयथ्र्यात् । वधादेशस्यादन्ततया अछेोपस्य स्थानि
वत्वादेव वृध्द्यभावसिद्धः । वधक इति ॥ 'जनिवध्योश्च' इति वृद्धिनिषेध । रन्धकः
जम्भकः इत्यत्र इदित्वाभावादप्राप्त नुमि तद्विधि स्मारयति । राधिजभोरचीति ॥ राधिते
त्यत्र “रधिजभोः' इति नुममाशङ्कय आह । नेट्यलिटि रधेरिति ॥ राधिता-रद्वेति ॥
रधादिभ्यश्च' इति वेट् । मस्जू तृ इति स्थिते आह । मस्जिनशोरिति ॥ जुम्विधि
रयम् । मङ्गेति ॥ मसूज तृ इति स्थिते “मस्जेरन्त्यात् पूर्वो नुम् वाच्यः’ इति सकारादुपरि
जकारात् प्राड्नुम् । मस्न्ज़ तृ इति स्थिते “स्को.’ इति सलोपः, जस्य कुत्वेन गः, तस्य
चत्र्वेन कः, अनुस्वारः, परसवर्णेन ड इति भाव । नष्टा-नशितेति ॥ रधादत्वाद्वट् ।
इडभावपक्षे ‘मस्जिनशो.' इति नुमि नन्श तृ इति स्थिते ‘त्रश्च' इति शस्य ष । नस्यानुस्वारः
श्रुत्वम्। रभेरशाब्लिटोः इति ॥ लुम्विधिरयम्। लब्धेति ॥ ‘झषस्तथोः'इति तस्य ध'जश्त्वेन
भख्य बः। तीषसहेति । इड़िकल्पोऽयम् । सोढेति ॥ ढत्वधत्वष्टुत्वढलापाः । ‘सहिवहो:
इत्योत्वम् । दरिद्रातेरालोप इति ॥ ‘दरिद्रातेरालोपो वक्तव्यः’ इत्यनेनेति भावः । एवुलि
नेति ॥ दरिद्रातेण्र्युलि आलोपो नेत्यर्थः । ‘न दरिद्रायके लोप.’ इति वार्तिकादिति भाव. । दरि
द्रायक इति ॥ ' आतो युक’ इति भावः । पादाभ्या हियते पादहारकः इत्यत्र कर्मणि
ण्वुल साधयितुमाह । कृत्यल्युट इत्येवेति ॥ 'कृत्यल्युटः’ इत्येतावतैव पुनर्वचनबलात्
येष्वर्थेषु ते कृत्यल्युट: विहिता तताऽन्यष्वप्यथषु भवन्तत्यिथलाभात् बहुळग्रहण याग
विभागार्थम् । कृत्प्रत्यया येष्वर्थेषु विहिताः ततोऽन्यत्रापि कचित् भवन्तीति । एवञ्च कर्मण्यपि
ण्वुल् सिध्द्यतीत्यर्थः । “कृतो बहुळम्’ इति वार्तिकन्तु एतद्योगविभागसिद्धकथनपर
मिति भाव । क्रमेरिति ॥ आत्मनेपदविषयात् क्रमेः परस्य कर्तरि कृतो नेडित्यर्थः ।
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/६७
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९६
[कृदन्त
सिध्दान्तकौमुदीसहिता