पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९०
[कृदन्तकृत्य
सिध्दान्तकौमुदीसहिता

कुत्वं न । वञ्च्य म् । “गतैौ' किम् । वङ्क-यं काष्ठम् । कुटिलीकृत

२८८० । ओक उचः के । (७-३-६४)

उचेर्गुणकुत्वे निपात्येते के परे । ओकः शकुन्तवृषळौ । इगुपधलक्षणः कः । घञ्पा सिद्धे अन्तोदात्तार्थमिदम् ।

२८८१ । ण्य आवश्यके । (७-३-६५)

कुत्व न

२८८२ । यजयाचवरुचप्रवचर्चश्च । (७-३-६६)

ण्ये कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेष । ऋच्’ । अच्र्यम् । ऋदुपधत्वेऽप्यत एव ज्ञापकाण्ण्यत् । “त्यजेश्व' । त्याज्यम् । ‘यजिपूज्योश्च' इति काशिका । तत्र पूजेग्रहणं चिन्त्यम्। भाष्यानुक्त त्वात् । “ण्यत्प्रकरणे त्यजेरुपसङ्ख-यानम्’ इति हि भाष्यम् ।

२८८३ । वचोऽशब्दुसंज्ञायाम् । (७-३-६७)

वाच्यम् । ३शब्दाख्याया तु वाक्यम् ।

२८८४ । प्रयोज्यनियोज्यौ शक्यार्थे । (७-३-६८ )

प्रयोक्तुं शक्यः प्रयोज्यो नियोक्तुं शक्यो नियोज्यो भृत्यः ।


शेषपूरणमिदम् । ‘चजोः कु घिण्यतो’ इत्यतः कुग्रहणस्य ‘न कादेः’ इत्यतो नेत्यस्य चानुवृत्तेरिति भावः । ण्य आवश्यके । कुत्वज्ञेति ॥ शेषपूरणमिदम् । आवश्यकेऽर्थे यो ण्यः तस्मिन् परे ‘चजो’ कु घिण्यतोः इति कुत्वन्नेत्यर्थः । यजयाच ॥ ण्ये कुत्वज्ञेति ॥ शेषपूरणमिदम् । यज, याचव, रुचव, प्रवचव , ऋच्, एषान्द्वन्द्वात् षष्ठी । एषां ण्ये परे ‘चजोः कुधिण्यतोः’ इति कुत्व न्नेत्यर्थः । ननु अच्र्यमित्यत्र कथं ण्यत् । ‘ऋदुपधाचाक्लपिचूतेः' इति ऋदुपधत्वलक्षणस्य क्यपो ण्यदपवादत्वादित्यत आह । ऋदुपधत्वेऽपीति ॥ त्याजपूज्योश्रेति । प्ये कुत्वन्नेति शेषः । वचोऽशब्दसंज्ञायाम् ॥ वचधातोण्यें कुत्वन्न । शब्दसज्ञा वर्जयित्वेत्यर्थः । वाच्यमिति ॥ वस्त्विति शेषः । अशब्दसज्ञायामित्यस्य प्रयोजनमाह । शब्दाख्यायान्तु वाक्यमिति ॥ एकतिङ् वाक्यम्, इति संज्ञाशब्दोऽयमिति भावः । प्रवाच्यमित्यत्र तुग्रन्थविशेषसज्ञात्वऽपि नाय डुत्वनिषेधस्य निषेध , 'यजयाच' इत्यत्र प्रवचेति विशिष्योपादानात् असज्ञायामित्यस्य प्रपूर्वा द्वचेरन्यत्र चरितार्थत्वात् । एतदभिप्रायेणैव प्रवाच्य ग्रन्थविशेषः इत्युक्तम्प्राक् । प्रयाज्य नियोज्यौ ॥ शक्यार्थे प्ये कुत्वाभावो निपात्यते । 'शकि लिङ् च' इति कृत्यानां शक्यार्थेऽपि