पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४८९
बालमनोरमा ।

२८७५ । न कादेः । (७-३-५९)

कादेर्धातोश्चजो: कुत्वं न । गज्यैम् । वार्तिककारस्तु *चजोः (सू २८६३) इति सूत्रे 'निष्ठायामनिटः' इति पूरयित्वा “न कादेः (सू २८७५) इत्यादि प्रत्याचख्यौ । तेन अर्जितजिप्रभृतीनां न कुत्वम्। निष्ठायां सेट्त्वात् । मुचुग्लुचुप्रभृतीनां तु चकादत्वऽपि कुत्वं स्यादेव । सूत्रमते तु यद्यपि विपरीतं प्राप्तम् । तथापि *यथोत्तरं मुनीनां प्रामाण्यम्' ।

२८७६ । अजिब्रज्योश्च । (७-३-६०)

न कुत्वम् । समाज । पारत्राजः ।

२८७७ । भुजन्युब्जौ पाण्युपतापयोः । (७-३-६१)

एतयोरेतौ निपात्यौ । भुज्यते अनेनेति भुजः पाणिः । “हलश्च (सू ३३००) इति घञ् । न्युब्जन्त्यस्मिन्निति न्युब्जः । उपतापो रोगः । 'पाण्युपतापयोः' किम् । भोगः समुद्रः ।

२८७८ । प्रयाजानुयाजौ यज्ञाङ्गे । (७-३-६२ )

एतौ निपात्यौ यज्ञाङ्गे । पञ्च प्रयाजा । त्रयोऽनुयाजाः । 'यज्ञाङ्गे किम् । प्रयागः । अनुयागः ।

२८७९ । वञ्चेर्गतौ । (७-३-६३)


‘चजोः' इति कुत्वम् । समवपूर्वाचेति । वार्तिकमिदम् । स्मृजेण्र्यदिति शेषः । न कादेः ॥ कुः आदिर्यस्येति विग्रहः । चजेोः कु इत्यनुवर्तते । तदाह । कादेरिति ॥ कवर्गादेरित्यर्थः । वार्तिककारस्त्विति ॥ “चवजेोः कु घिण्ण्यतोः' इति सूत्रे 'निष्ठायामनिटः’ इति पूरितम् । तथा च निष्ठाया यः अनिट् तद्धात्ववयवयोः चवजेोः कु स्यात् घिति णिति चेवल्यर्थः फलति । तथा ‘न कादे.’ इति सूत्र ‘अजित्रज्योश्च' इति सूत्रं ‘यजयाचरुचप्रवचर्चर्वेश्व' इत्यत्र यजयाच प्रहणञ्च न कर्तव्यमिति प्रत्याचख्यावित्यर्थः । किन्तत इत्यत आह । तेनेति । अर्जितार्जप्रभृतीनां ण्यति कुत्वं स्यात् । “न कादेः’ इति निषेधस्य तत्राप्रवृतेरिति भावः । तदेव सूत्रमते अति व्याप्तिमुक्रा अव्याप्तिमाह । युधुग्लुञ्चुप्रभृीनामिति ॥ तेषा कवर्गादित्वेऽपि ण्यति प्रोक्यमित्यादौ कुत्वमिष्टं स्यादेव । वार्तिकमत “न कादे.’ इति निषेधस्य प्रत्याख्यातत्वात् । सूत्रमते तु “न कादेः’ इति निषधात् ग्रेोक्यमित्यादौ कुत्वामिष्टन्न स्यादित्यव्याप्तिरिति भावः । नन्विदं वार्तिक विपरीतमपि सूत्रसम्मतत्वात् ग्राह्यमव । विरोध विकल्पस्य वक्तु शक्यत्वादिति शङ्कते । सूत्रमते तु यद्यपीति ॥ परिहरति । तथापीति । यथोत्तरमिति ॥ अय वैयाकरणसमयः । अजिव्रज्योश्च ॥ इत्यादि स्पष्टम् । वञ्चेर्गतौ ॥ कुत्वन्नेति ॥ 62