पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४५५
बालमनोरमा ।

स्मरसि कृष्ण गोकुले वत्स्याम । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसम्भवात् ।

२७७४ । न यदि । (३-२-११३)

यद्योगे इत्तं न । अभिजानासि कृष्ण यद्वने अभुञ्जमहि ।

२७७५ । विभाषा साकाङ्क्षे । (३-२-११४)

उत्क्तविषये लड़ा स्यात् । लक्ष्यलक्षणभावेन साकाङ्कश्चेद्धात्वर्थ । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । यच्छब्दयोगेऽपि ‘न यदि' (सू २७७४) इति बाधित्वा परत्वाद्वि कल्पः । “परोक्षे लिट्’ (सू २१७१) । चकार । उत्तमपुरुषे चित्तविक्षेपादि ना पारोक्ष्यम् । “सुप्तोऽहं किल विलालाप' * बहु जगद् पुरस्तात्तस्य मत्ता किलाहम्' । अत्यन्तापह्नवे लिड़क्तव्यः' (वा २०८४) । कलिङ्गेष्ववात्सी नाहं कलिङ्गाञ्जगाम ।


तदाह। भूतानद्यतने इति ॥ लङः इति । अनद्यतने लडित्यस्यापवाद इत्यर्थः । स्मर सीति ॥ हे कृष्ण गोकुले अवसमिति यत् तत् स्मरसीत्यर्थ.। अत्र वाक्यार्थ. कर्म । कृतङ्गोकुलवास स्मरसीति यावत् । एवमिति । स्मरसीति पदयोग इव बुध्यसे इत्यादिस्मृतिबोधकपदयोगे ऽपि लडित्यर्थः । ननु बुध्यत्यादेः स्मृतित्वेन रूपेण स्मृत्यर्थकत्वाभावात्कथमिह लडित्यत आह । तेषामपीति ॥ पर्यवसानगल्या स्मृतिबोधकत्वात्तद्योगेऽपि लट् । एतदर्थमेव वचन ग्रहणमिति भाव । न यदि ॥ यदीति सप्तमीति मत्वा आह । यद्योगे इति । उक्तं नेति ॥ अभिज्ञावचने इति लट् न भवतीत्यर्थः । अभिजानासीति । वने अभुञ्ज्महीति यत् तत् स्मरसीत्यर्थः । विभाषा ॥ उक्तविषये इति ॥ अभिज्ञाबोधिन्युपपदे इत्यर्थ । लक्ष्यलक्षणभावेनेति । अत्र व्याख्यानमेव शरणम् । ज्ञाप्यज्ञापकभावनत्यर्थ । स्मरसी ति ॥ पूर्व वने अवसाम, तत्र वने गाः अवारयाम इति यत् तत् हे कृष्ण स्मरसीत्यर्थः । अत्र यत् इत्यस्य गम्यत्वेऽपि तस्य प्रयोगाभावान्न यद्योग. । वासो लक्षणमिति चारणस्येति शेषः । उभयत्रापि लड़िकल्प . । अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः । नच यद्योग एव ‘विभाषा साकाक्षे' इति विकल्पोऽस्त्विति भ्रमितव्यम् । ‘यदि वायं विक ल्पः’ इति भाष्यात्तदाह। यच्छब्दयोगेऽपीति ॥ ‘परोक्षे लिट्’ इति प्राकु व्याख्यातमपि वि . शेषविवक्षया स्मर्यते । अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वाभावात् कथमस्य लिट उत्तमपुरुष इत्यत आह । उत्तमपुरुषे चित्तेति ॥ सुप्तः इति ॥ सुप्तत्वादह विललापेत्यर्थः । अत्र स्वापाचि तविक्षेपः । बहु जगदेति ॥ मत्तत्वात्तस्य पुरस्तादह बहु जगदेत्यर्थः । अत्र उन्मादाचित्त विक्षेपः । आदिना व्यासङ्गसङ्गहः । अत्यन्तापह्नवे इति । अपरोक्षार्थमिदम् । कलि ङ्गेष्ववात्सीरिति ॥ अतस्त्वन्न सहवासयोग्य इति प्रश्नः । 'अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु