सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६३३
बालमनोरमा ।

शीलं स्वभावः। शैवलः । शेवालम् । बाहुलकात् वस्य पोऽपि । शेवालं शैवलो न स्त्री शेपालो जलनीलिका' ।

४७९ । मृकाणाभ्यामूकाकणा । मरूको मृगाः काणूकः काकः ।

४८० । वलरूकः । वलकः पक्षी उत्पलमूलं च ।

४८१ । उल्लूकादयश्च । वलेः संप्रसारणमूकश्च । उलूकाविन्द्रपेचकौ । वावदूको वक्ता । भल्लूकः । 'शमेर्बुक् च' (गण २००) । शम्बूको

४८२ । शलिमण्डिभ्यामूकण । शालूकं कन्दविशेषः । मण्डूकः ।

४८३ । नियो मिः । नेमिः ।

४८४ । अतरूच । ऊमि ।

४८५ । भुवः कित् । भूमिः ।

४८६ । अश्लोते रश्च । रश्मिः किरणो रज्जुश्च ।

४८७ । दाल्मः । दल विशरणे । दल्मिरिन्द्रायुधम् ।


इत्यमरः । अर्धर्चदिपाठात् कृीबत्वञ्च । “पुन्नपुसकयोदोरुजीवातुस्थाणुशीधवः’ इति त्रिकाण्ड शेष । ‘शील स्वभावे सदृत्त' इति मेदिनी । “जलनीली तु शेवाल शैवलः' इत्यमरः । शैवल पद्मकाष्ठ स्यात् शैवले तु पुमानयम्' इति मेदिनी । शब्दार्णवोक्तिमाह । शेवाल मित्यादि । उलूकादयश्च ॥ “उलूकः पुसि काकादाविन्द्र भारतयोधिनि ' इति मेदिनी । वदेदयैडन्तादृकः । ‘वाचोयुक्तिपटुर्वाग्मी वावदूकश्च वक्तरि' इत्यमरः । शमेर्युक् च ॥ ‘शम्बूको गजकुम्भान्ते घोषे च शूद्रतापसे' इति मेदिनी । बाहुलकादुकप्रत्यये हखमध्योऽपि । ‘जम्बूकं जम्बुक प्राहुः शम्बूकमपि शम्बुकम्' इति द्विरूपकोश । जम्बूकबन्धूकादयोऽप्यत्रैव द्रष्टव्याः । जम्बूक. फरवे नीचे पश्चिमाशापतावपि' इति विश्वमेदिन्यौ बन्धूक बन्धुजीवे स्यात् बन्धूक पीतसारके' इति च । शलिमण्डि ॥ 'सौगन्धिकन्तु कहारम्' इत्याद्युपक्रम्य ३शालकमषा कन्दः स्यात्' इत्यमरः । एषा सौगन्धिकादीनां कैरवान्ताना कन्दो मूलमित्यर्थः । नियो मिः ॥ ‘नेमिन तिनिशे कूपत्रिकाचवक्रान्तयोः स्त्रियाम्’ इति मेदिनी । बाहुलकादन्यतो ऽपि । “या प्रापणे ।’ “यामिः स्वसृकुलस्त्रियोः’ इत्यन्तःस्थादौ रभसः । “यामिः कुलत्रीस्वस्रो स्री' इत्यन्तस्थादौ मेदिनी । “जै क्षय।' 'जामिः स्वसृकुलस्त्रियोः' इति चवर्गतृतीयादौ अजयकोशः । 'चवर्गादिरपि प्रोक्तो यामिः स्वसृकुलस्त्रियोः' इति द्विरूपेषु विश्वः । अतेरूञ्च ॥ उचेत्युचितम् । 'ऊर्मिः स्त्रीपुंसयोर्वीच्या प्रकाशे वेगभङ्गयो । वस्रसङ्कोचरेखायां वेदनापीडयो रपि' इति मेदिनी । भूमिः, “भूमिर्वसुन्धरायां स्यात् स्थानमात्रेऽपि च स्त्रियाम्' इति मेदिनी । अश्रोते ॥ * रश्मिः पुमान् दीधितौ स्यात् पक्षप्रग्रहयोरपि' इति मेदिनी । 80