सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीय: पाद:]
६१९
बालमनोरमा ।


३५२ । सपूर्वाचित् । संवत्सरः ।

३५३ । कृधूमांदभ्यः केित् । बाहुलकान्न षत्वम् । 'कृसरः स्यातिलौ दनम्' । धूसरः । मत्सरः । 'मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता ' ।

३५४ । पते रश्च ल : । पत्सलः पन्थाः ।

३५५ । तन्यूषिभ्यां क्सरन् । तसरः सूत्रवेष्टनम् । ऋक्षरः । ऋत्विक् ।

३५६ ॥ पीयुकूणिभ्यां कालन्हस्वः सम्प्रसारणञ्च । पीयुः सौत्रः । पियालो वृक्षभेदः । कुणालो देशभेदः ।

३५७ । कठिकुषिभ्यां काकुः । कठाकुः पक्षी । कुषाकुरन्निः सूर्यश्च ।

३५८ । सर्तदुक्च । “ सृदाकुर्वातसरितोः' ।

३५९ । वृतेर्तृद्धिश्च । वार्ताकुः । बाहुलकादुकारस्य अत्वम् । वार्ताकम् ।


हेमचन्द्रः । उज्ज्वलदत्तादयस्तु अशे ' सरानात पठ । तन्न । नित्स्वरापत्त• । इष्यते तु प्रत्ययस्वरणाक्षरशब्दस्य मध्यादात्तत्वम् । ‘ऋचवा अक्षरे परमे व्योमन् ।’ ‘अक्षरण निमति सप्तवाणी’ इत्यादृङमन्त्रेषु ‘त्रीणि च शतानि षष्टिश्चाक्षराणि' इति यजुषि च तथैव पाठात् । अत एव द्वितीयाह्निकान्ते । “अश्रोतेर्वा सरोऽक्षरम्’ इति भाष्यकृतोक्तम् । सपूर्वाचित् ॥ पूर्वेण सहितः सपूर्वः । ‘इद्वत्सराय परिवत्सराय सवत्सराय । सम्पूर्वादिति पाठस्तु लक्ष्यविरोधादुपेक्ष्यः । कृधू ॥ कृसर इत्यादि हारावलीस्थम् । ‘धूसरी किन्नरीभेदे नागरे त्रिषु पाण्डुरे' इति मेदिनी । मत्सरामक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान् । असह्यपरसम्पत्तौ कृपाणे चाभिधेयवत्' इति । मत्सरोऽन्यशुभद्वषे तद्वत्कृपणयोः त्रिषु' इति अमरः । ‘असह्यपरसम्पत्तौ मात्सर्ये कृपणे कुधि इति विश्व । वद तु याग पुरस्कृत्य प्रयुज्यते । 'इन्दुमिन्द्राय मत्सरम् । त सिन्धवा मत्सर मिन्द्रपानम्’ इत्यादि । मत्सर हर्षहेतुमिति तद्राष्यम्। अमरोक्तिमाह । तस्लर इति ॥‘अनुदात्तो पदेश' इत्यादिना अनुनासिकलोपः । ऋक्षरः, ऋत्विगिति ॥ ‘ऋक्षरन्तोयधारायामृक्षरस्त्वृ विाज स्मृत.' इति मेदिनी । “ अनृक्षरा ऋजव" सन्तु पन्थाः ' इति मन्त्रस्य वदभाष्य तु ऋक्षरः कण्टक इति व्याख्यातम् । पीयुकणिभ्याम् ॥ 'राजादनं प्रियालुः स्यात् । इत्यमरः । 'प्रियालुः स्याप्रियालवत्' इतेि हि द्विरूपकोश. । बाहुलकाद्रजेरपि कालन् । नलोपः । न्यङ्कादित्वात्कुत्वम् । भगाल नरमस्तकम् । मत्वर्थे इनिः । ‘चण्डीकान्तो भगाली च लेलिहानो वृषध्वजः इति राजशेखरः । कठिकुषिभ्याम् ॥ 'कठ कृच्छूजीवने , कुष निष्कर्षे ।’ कठाकुः कपिवह्नयर्के ना परोक्तापिनि त्रिषु' इति मेदिनी उज्ज्वलदत्तस्तु कटिकषिभ्यामिति । पठित्वा ‘कषशिष' इति दण्डकधातुमुपन्यस्य कषाकुरित्युदाजहार । तत्कोशविरुद्धम्। मेदिनीकोशे उकारप्रक्रमे पाठात् । सर्तेः ॥ 'सृदाकुर्नानिले चक्रे ज्वलने प्रतिसूर्यके' इति मेदिनी । वृतेः ॥ वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते' इति द्विरूपे विश्वः । ‘वार्ताकी हिङ्कली