पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीय: पाद:]
६०३
बालमनोरमा ।


२०७ । बहुलमन्यत्रापि । कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् । द्यतेः “यत्परुषि दिनम्' दिवसोऽपि दिनम् ।

२०८ । दुदक्षिभ्यामिनन् । द्रविणम् । दक्षिण: । दक्षिणा ।

२०९ । अर्तेः किदिच । इरिणं शून्यम् ।

२१० । वेपितुह्योर्हस्वश्च । विपिनम् । तुहिनम् ।

२११ । तलिपुलिभ्यां च । “तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु' । पुलिनम् ।

२१२ । गर्वेरत उच । गौरादित्वान्ङीष् । गुर्विणी गभिणी ।

२१३ । रुहेश्च । रोहिणः ।

२१४ । महेरिनण्च । चादिनन् । माहिनम्-महिनम् राज्यम् ।

२१५ । किब्वविप्रच्छिाश्रिधुदुयुज्वां दीघोंऽसम्प्रसारणं च । वाक् । प्राट् । श्राः । स्रवत्यता घृतादिकमिति लूः, यज्ञोपकरणम् । दूर्हिरण्यम् । कटः कामरूपी कीटश्च । “जूराकाशे सरस्वत्यां पिशाच्यां जवने स्त्रियाम्

२१६ । आमोतेर्हस्वश्च । आपः । अपः । अद्भिः । अद्भयः ।

२१७ । परौ व्रजेः षः पदान्ते । व्रजेः किब्दीर्घौ स्तः, पदान्ते तु षश्च । परिव्राट । परिव्राजौ ।


कठिनमिति ॥ कठ कृच्छूजीवने । “कठिनमपि निष्ठुरे स्यात् स्तब्धे तु नपुंसके स्थाल्याम् । कठिनी खटिकायामपि कठिना गुडशर्करायाञ्च' इति मेदिनी । मलिनमिति ॥ “मल लिनन्दूषिते कृष्णे ऋतुमत्यान्तु योषिति' इति मेदिनी । कुण्डिन नगरङ्गुण्डिनमण्डजो ययौ' इति श्रीहर्षे कुण्डिनः ऋषि दिनमिति ॥ परुषि पर्वणि दिन खण्डितमिति तैत्तिरीयथश्रुत्यर्थ । दुदक्षिभ्यामि नन् ॥ “दु गतौ' । 'दक्ष वृद्धौ । 'द्रविण न द्वयोर्वित्ते काञ्चने च पराक्रमे । दक्षिणा दक्षिणोदूतसरलच्छन्दवर्तिषु । अवामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम्' इति मेदिनी । दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु । वाच्यवद्दक्षिणावाची यज्ञदानप्रतिष्ठयो इति विश्व” । अर्तेः ॥ “इरिण शून्यमूषरम्' इत्यमर । 'इरिणन्तु खरे शून्येऽपि' इति मेदिनी । तुहिनमिति ॥ तुहिर् अर्दने । लघूपधगुणे कृते हख । तलिपुलिभ्याञ्च ॥ तल प्रतिष्ठायाम् । पुल महत्त्वे । “तलिन विरले स्तोके खच्छेऽपि वाच्यलिङ्गकम्' इति मेदिनी । महेः ॥ 'कुतस्त्वमिन्द्र माहिनस्सन्’ इति मन्त्रे माहिनो महनीय पूजनीय इति वेदभाष्यम् । किब्वचि ॥ पृच्छतीति प्राट् । 'छेोः शठ्’ इति शः । प्राशौ प्राशः । श्रीरिति ॥ 'कृदि कारात्' इति डीष् तु न । कृत्प्रत्ययो य इकार इति व्याख्यानात् । कृदन्तं यदिकारान्तमिति