पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीय: पाद :]
५९७
बालमनोरमा ।


१६० । अवे भृव्यः । अवभृथः ।

१६१ । उषिकुषिगर्तिभ्यस्थन् । ओष्ठः । कोष्ठम् । गाथा । अर्थः । बाहुलकाच्छाथः ।

१६२ । सर्तेर्णित् । सार्थः समूहः ।

१६३ । नृट्टञ्भ्यामूथन् । जरूथं मांसम् । “वरूथो रथगुप्तौ ना' ।

१६४ । पातृतुदिवचिरिचिसिचिभ्यस्थक् । पीथो रविः घृतं पीथम् । 'तीर्थ शास्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्रीरजःसु च विश्रुतम्' इति विश्वः । तुत्थोऽग्निः । उक्थं सामभेदः । रिक्थम् । बाहुलका दृचेरपि । “रिक्थमृक्थं धनं वसु' । सिक्थम् ।

१६५ । अर्तर्निरि । नित्रंथं साम ।

१६६ । निशीथगोपीथावगथाः । निशीथोऽर्धरात्रो रात्रिमात्रं च । गोपीथं ताथम् । अवगथः प्रातःस्रातः ।

१६७ । गश्चोदि । उद्भीथः साम्रो भागविशेषः ।

१६८ । समीणः । समिथो वह्निः, संग्रामश्च ।


मन्त्रे नीथशब्दस्यान्तोदात्तत्व बाहुलकात् । “नीथे नीथे स्तोत्रे स्तोत्रे च' इति वेदभाष्यम् । 'रथः पुमानवयवे स्यन्दनेन वेतसेऽपि च' इति मेदिनी । “रथः स्यात्स्यन्दने काये चवरणे वेतसेऽपि च' इति विश्वः । “काष्ठा दारुहरिद्रायाङ्कालमानप्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुसकम्' इति मेदिनी । उषिकुषि ॥ * कोष्ठः कुसूले चात्मीये मध्ये कुक्षेगृहस्य च । गाथा श्लोके संस्कृतान्यभाषायां शेषवृत्तयोः' इति मेदिनी । 'अर्थोऽभिधेयरैवतुप्रयोजन निवृतिषु' इत्यमरः । “ अर्थो विषयार्थनयोर्द्धर्मकारणवस्तुषु । अभिधेये च शब्दानां निवृत्तौ च प्रयोजने' इति मेदिनी । शोथः श्वयथुः । शु गतौ । सर्तेर्णित् ॥ 'सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके' इति मेदिनीविश्वप्रकाशौ । वृञ् ॥ 'जरूथोऽसुरविशेषः’ इति वेद भाष्यम् । 'वरूथ स्यात्तनुत्राणे रथगोपनवेश्मनोः' इति हेमचन्द्रः । 'वरूथो रथगुप्तौ स्याद्व रूथं रथवेश्मनोः' इति विश्वः । पातृ ॥ 'तुत्थो ग्रावाञ्जने तु स्यान्नीलीसूक्ष्मैलयोरपि' इति विश्वः। 'तुत्थमञ्जनभेदे स्यात् नीलीसूक्ष्मैलयोः स्त्रियाम्। सिक्थो भक्तपुलाके ना'इति मेदिनी । अर्तेः॥ 'ऋ गतौ' ‘द्रोघवाचस्ते नित्रंथं सञ्चन्ताम्' इति मन्त्रे 'नित्रंथो हिंसा' इति वेदभाष्यम् । निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके' इति मेदिनी । ‘प्रतिल्यञ्चारुमध्वरम्’ इति मन्त्रे गोपीथः सोमपानामिति वेदभाष्यम् । यास्कोऽप्येवम् । तीर्थमिति तु वृतिकार । अवगथ इति ॥ गाडो हखत्व निपातनात् । समीणः ॥ ‘समिथशब्दः सङ्ग्रामपर्यायेषु वैदिकनिघण्टौ पठितः । 'श्रिये जात' इति मन्त्रे समिथा युद्धानि' इति वेदभाष्यम् । युक्तचैतत् । सम्यगेति