पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४४
[कर्मकर्तृतिङ्
सिध्दान्तकौमुदीसहिता

णाकर्मकाः । तेभ्यो भावे कर्तरि च लकाराः । पच्यते ओदनेन । भिद्यते काष्ठेन । कतार तु

२७६६ । कर्मवत्कर्मणा तुल्यक्रियः । (३-१-८७)

कर्मस्थया क्रियया तुल्यक्रियः कर्ता कार्यातिदेशोऽयम् कमवत्स्यात् । तेन यगात्मनेपदचिण्चिण्वदिटः स्युः । कर्तुरभिहितत्वात्प्रथमा । पच्यते ओदनः। भिद्यते काष्ठम् । अपाचि । अभेदि । ननु भावे लकारे कर्तुद्वितीया स्याद्स्मा दतिदेशादिति चेन्न । लकारवाच्य एव हि कर्ता कर्मवत् । “लिङ-याशिष्यङ्


ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः । तत्र कर्मणि लकारे यथा सुधा क्षीर सागरो मथ्यते । कर्तरि यथा सुधा क्षीरसागरो मथ्नाति । अथ यदुक्त एककर्मकेषु कमेण: कर्तृत्वविवक्षायामकर्मकत्वमिति तस्य प्रयोजनमाह तेभ्यो भावे कर्तरि चव लकाराः इति ॥ नतु कर्मणि। असम्भवात् । अत एव अकर्मकेभ्यो भावे कर्तरि ल इत्युक्त मिति मावः । तत्र एककर्मकेभ्य कर्मण कर्तृत्वविवक्षाया भावे लकार उदाहरति । पच्यते ओोदनेननेति । आदनकर्तृक पाक इत्यर्थः । एव भिद्यते काष्ठेनेत्यपि । यद्यपि पचेर्द्धिकर्मक त्वम् । तथापि तण्डुलानामविवक्षाया एककर्मकत्व पचेराश्रितम् । कर्तरि त्विति ॥ एकक मैकषु कर्मण. कर्तृत्वविवक्षायाङ्कर्तरि लकारे विशेषो वक्ष्यते इत्यर्थः । कर्मवत्कर्मणा ॥ कर्तरि शप्' इत्यत. कर्तरीत्यनुवृत्त प्रथमया विपरिणम्यते । तुल्या िक्रया यस्य स. कर्ता तु ल्यक्रियः । कर्मणेल्यनेन कर्मकारकस्था क्रिया विवक्षिता । क्रियाया. कर्मकारकेण तुल्यत्वस्य तत्स्थक्रियामादायैव उपपाद्यत्वात् । तदाह । कर्मस्थयेत्यादिना ॥ कर्मणः कर्तृत्वेन विवक्षा या कता कमवादात यावत् । वत्करणाभाव तु कर्मसज्ञक इत्यथशङ्का स्यात् । तथा सांत सकर्मकत्वात् पच्यते ओदनेन भिद्यत काष्ठनेति भावे लो न स्यात् । कार्यातिदेशोऽय मिति । यद्यपि शास्त्रातिदेशे कार्यातिदेशे वा न फलभेद तथापि शास्त्रातिदेशस्या का यतिदशार्थत्वान्मुख्यत्वात् कार्यातिदेश एवाश्रयणीय इत्यर्थ. । तेनेति ॥ स्युरित्यत्रान्वेति । कर्मवत्त्ववचनेन कर्मकार्याणि ‘सार्वधातुके यक्' इत्यत. यक् । 'भावकर्मणो ' इत्यात्मनेपदम् । “स्यसिच्सीयुट्तासिषु' इति चिण्वत्, तत्सन्नियोगशिष्ट इट् च स्युरित्यर्थ । कर्मण कर्तृत्वविवक्षायाङ्कर्तरि विहितानि शास्त्राण्येव न स्युरिति भाव . । कर्तुरिति कर्मण कर्तृत्व विवक्षायाङ्कर्तरि लकारे सति तदादेशतिडा कर्तुरभिहितत्वादित्य र्थ. । पच्यते ओदनः इति फूत्कारादिपुरुषश्रमातिशयविशेष विना विकृित्याश्रयो भवतीत्यर्थः । भिद्यते काष्टमिति ॥ कुठारादिदृढाघातम्पुरुषश्रम विना द्विधा भवतीत्यर्थ । अत्र कमण' कतृत्वऽप कमत्वातद शाद्यक् । आपाचव । अभेदीति । अत्र कमवत्वाचणू । ननु कमण' कतृत्वाववक्षाया भावलकारे पच्यते ओदनन, भिद्यतेत काष्ठेनेत्यत्र कर्मकर्तुस्तिडाऽनभिहितत्वात् द्वितीया स्यात् । कर्मवत्वातिदेशादित्याशङ्कते । नन्विति ॥ परिहरति । नेति ॥ नायमाक्षेप उन्मिषतीत्यर्थः । कुत इत्यत आह । लकारवाच्य एव हि कर्ता कर्मवदिति ॥ तच कुत इत्यत आह ।