पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
उणाद्य:]
५७७
बालमनोरमा ।


१० । शूस्कृन्निहित्रप्यसिवासिहनिििदबन्धिमनिभ्यश्च । श्रृणातीति शरुः । 'शरुरायुधकोपयोः' । स्वरुर्वज्रम् । रुन्नेहुव्र्याधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । 'पुंसि भूम्न्यसवः प्राणाः' । “ वसुर्हदेऽस्रौ योक्त्रेऽशैौ वसु तोये धने मणैौ' । हनुर्वक्त्रैकदेश: । छेदुश्चन्द्रः । बन्धुः । मनुः । चात् 'बिदि अवयवे' ।

११ । स्यन्देः सम्प्रसारणं धश्च । । देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमर ।

१२ । उन्देरिचादेः । उनत्ति इन्दुः ।

१३ । ईषेः किच । ईषेरुः स्यात्स च किदादेरिकारादेशश्च । ईषते हिनास्ति इषुः शर । 'इषुर्द्धयो ' ।

१४ । स्कन्देः सलोपश्च । कन्दु । १५ । सृजेरसुम् च । चात्सलोप उप्रत्ययश्च । रज्जुः । १६ । कृतेराद्यन्तविपर्ययेयश्च । ककारतकारयोविनिमय । तर्कः सूत्र १७ । नावश्वेः । न्यङ्कादित्वात्कुत्वम् । नियतमञ्चति न्यङ्कुगः । १८ । फलिपाटिनमिनिजनां गुक्पटिनाकिधतश्च । फलेर्गुक् फल्गुः ।


यद्यपि फलिपाटील्यादिसूत्र यावदनुवर्तते इतेि न्यासग्रन्थेन मर्यादीकृत्यत्यपि प्रतीयते । तथापि अभिव्याप्येत्येवोचितम् । ‘पिबतं सौम्यं मधु' इत्यादौ मधुशब्दस्याद्युदात्ततादर्शनात् । “वोतो गुणवचनात्' इति सूत्रे हरदत्तेन अभिव्याप्येति स्पष्टमभिधानाचेति भावः । त्रपु सीस मिति ॥ तद्धि अनिं दृष्टा त्रपते लज्जते इव । “त्रपु सीसकरङ्गयोः' इति मेदिनीकोशः । हनुरिति ॥ 'हनुः पुमान् परो गण्डात्' इति वररुचिकोशः । त्रीलिङ्गोऽप्ययम् । 'हनुर्हट्ट विलासिन्यां मृल्यावस्रगदे स्त्रियाम् । द्वयोः कपोलावयवे” इति मेदिनी । अतिशायने मतुप् । हनुमान् । “ अन्येषामपि दृश्यते' इति दृशिग्रहणात् पाक्षिको दीर्घः। हनूमान् । तेहेन बभ्रातीति बन्धुः । प्रज्ञादित्वात् बान्धवः । मनुरादिराजो मन्त्रश्च । बिन्दुः पवर्गीयादिः । कन्दुरिति ॥ स्कन्दत्यस्मिन् जनताप इति व्युत्पत्त्या भोगस्थानमित्याहुः । अमरस्त्वाह । 'हीबेऽम्बरीष भ्राष्टो ना कन्दुर्वा स्वेदनी स्त्रियाम्' इति । कन्दुर्वा ना इति पूर्वेणान्वयाद्वा पुमानित्यर्थः । स्वजेरसुम् घेति ॥ सृजतीति रज्जुः । स्त्रियां, 'रज्जुर्वेण्या गुणे योषित्' इति मेदिनी । आगमसकारस्य २चुत्वेन शः, ज३त्वन ज । तकुंरिति ॥ कृन्तत्यनेनेति विग्रहः । “तकुंटी सूत्रला तकुं.’ इति हारावलीकोशः । फलिपाटि ॥ एकापि षष्ठी विषयभेदाद्रिद्यते । गुगागमे हि फलेरवयवषष्ठी। पट्यादेशचतुष्टयविधौ तु पाट्यादिभ्यः स्थानषष्ठी । सा धतयोर्विधौ अन्येऽल्युपसहियते इति