पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५५५
बालमनोरमा ।


३०९३ । छन्दसि लिट् । (३-२-१०५)

३०९४ । लिटः कानज्वा । (३-२-१०६)

३०९५ । कसुश्च । (३-२-१०७)

इह भूतसामान्ये छन्दसि लिट् । तस्य विधीयमानौ कसुकानचावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । “ तं तस्थिवांसं नगरो पकण्ठे' । 'श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इत्यादि ।

३०९६ । वस्वेकाजाडसाम् । (७-२-६७)

द्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट्, नान्येषाम्। एकाच् आरिवान् । आत्, ददिवान् । जक्षिवान् । “एषाम्' किम् । बभूवान् ।


रपरत्वम्, 'हलि च' इति दीर्घः । निष्ठानत्वम् । छन्दसि लिट् ॥ लिटः कानज्वा ॥ कसुश्ध ॥ त्रीणीमानि सूत्राणि । अत्र प्रथमसूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्ट । भूतसामान्ये छन्दसि लिडिति ॥ अनद्यतनपरोक्षत्व छन्दसि न विवक्षितमिति भावः । लिट. कानज्वा' इति द्वितीय सूत्रम् । तत्र छन्दसीत्यनुवर्तते, भूते इति च । छन्दसि भूत लिटः कानजादेश. स्यादित्यर्थः । लिङ्ग्रहण लिण्मात्रस्य ग्रहणार्थम् । तेन “परोक्ष लिट्’ इति यो लिड़िहितः तस्यापि ग्रहणार्थः । अन्यथा “ अनन्तरस्य ' इति न्यायेन प्रकृतस्यैव लिटो प्रहण स्यादिति वृत्तौ स्पष्टम् । वाग्रहणन्तु पक्षे लिटः श्रवणार्थ, वासरूपविधिलादेशेषु नेति ज्ञापनार्थ वा । तत्प्रयोजनन्तु 'भाषाया सदवस' इत्यत्र अनुपदमेव वक्ष्यते । “कसुश्च' इति तृतीय सूत्रम् । छन्दसि भूते लिटः कसुश्चादेशः स्यादित्यर्थः । योगविभागस्तु उत्तरसूत्रे कसेोरेवानुवृत्त्यर्थः । इमौ कानच्कसू आदेशौ छान्दसाविति अत्रैव भाष्यकैयटयोः स्पष्टम् । तदाह । तस्येत्यादि त्रिमुनिमतमित्यन्तम् ॥ 'विभाषा पूर्वाह्वापराह्म' इति सूत्रभाष्ये तु पपुष आगत पपिवदूप्यमिति प्रयुक्तम् । तेन लोकेऽपि कचित् कसोस्साधुत्व सूचितम् । तदाह । कवयस्त्विति ॥ तस्थिवांसमिति ॥ स्थाधातोः लिटः कसुः । द्वितीयैकवचने ‘अत्वसन्तस्य’ इति दीर्घ, उगित्वान्नुम् । अधिजग्मुष इति ॥ आधिपूर्वाद्भमेर्लिटः कसुः 'गमहन इत्युपधालोप, शसि वसोस्सम्प्रसारण, पूर्वरूपम्, षत्वम् । वस्वे ॥ वसु इत्यविभक्तिको निर्देश. । तथाच व्याख्यास्यति । वसोरिति । नित्यत्वात् द्वित्वे कृते एकाच्त्वमेव नेति कथमिट्टस्यात् इत्यत आह । कृतद्विर्वचनानामेकाचामिति ॥ कृतेऽपि द्वित्वे एकाचव एव ये अवशिष्यन्ते तेषामित्यर्थः । 'नेनड़शि कृति' इति निषेध बाधित्वा कादिनियमात् सर्वत्र प्राप्तस्य इटो नियमोऽयमित्याह । नान्येषामिति ॥ आरिवानिति ॥ ‘ऋ गतौ' “ऋच्छ त्यूताम्” इति गुणे कृते द्वित्वादिषु पूर्ववत् कृतेषु अयमेकाच् । ददिवानिति ॥ डु दाञ् दाने कृते द्वित्वे नायमकाच् इण्निमित्तश्चातो लोपो नासति तस्मिन् भवतीति अनेकाजर्थमा द्वहणम् । जक्षिवानिति ॥ 'लिठ्यन्यतरस्याम्' इत्यदेर्धस्लादेशः । द्वित्वे कृते नायमेकाजिति