पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४६
[कृद्न्त
सिध्दान्तकौमुदीसहिता

स्थूले बलवति च निपात्यते । “दृह दृहि वृद्धौ' । क्तस्येडभाव तस्य ढत्वम्, हस्य लोपः, इदितो नलोपश्च । दृहितो-इंहितोऽन्यः ।

३०६१ । प्रभौ परिबृढः । (७-२-२१)

'बृह बृहि वृद्धेौ' । निपातनं प्राग्वन् । परिबृहितः-परिचूंहितोऽन्यः ।

३०६२ । कृच्छूगहनयोः कषः । (७-२-२२)

कषो निष्ठाया इण्न स्यादेतयोरर्थयोः । कष्टं दुःखं तत्कारणं च । 'स्यात्कष्टं कृच्छूमाभीलम्' । कष्टो मोहः । कष्टं शास्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ।

३०६३ । घुषिरविशब्दुने । (७-२-२३)

घुषिनिष्टायामनिट् स्यात् । घुष्टा रज्जु अविशब्दने' किम् घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ।

३०६४ । अर्देः सन्निविभ्यः । (७-२-२४)

एतत्पूर्वादर्देर्निष्टाया इण्न स्यात् । समर्ण: । न्यर्णः। व्यर्णः । अर्दितोऽन्यः।

३०६५ । अभेश्चाविदूर्ये । (७-२-२५)

अभ्यर्णम् । नातिदूरमासन्न वा । अभ्यर्दितमन्यत् ।


निष्ठातकारस्य ढत्वन्निपात्यते इत्यर्थः । हस्य लोप इति ॥ निपात्यते इति शेषः। इदित इति ॥ अनिदितस्तु नलोपस्सिद्ध एवेति भाव । ननु हस्य ढत्वे कृते 'झषस्तथेोधेऽध ? इति तकारस्य धत्वे तस्य छुत्वेन ढत्वे “ढो ढे' इति ढलोपे दृढ इति सिद्धम् । ततश्च इडभाव एव निपात्यताम्, न तु हकारलोपो ढत्वञ्चेति चेत् । मैवम् । तथाहि सति द्रढीयानित्यादौ ढलोपस्यासिद्ध त्वेन ऋकारस्य सयागपरतया लघुत्वाभावात् ' र ऋता हलादलघा ' इति रभावो न स्यात् । अत्र हकारलोपस्य ढत्वस्य च निपातने तु ऋकारस्य न संयोगपरकत्वम् । अस्य हलोपस्य साप्तमिकत्वेन सिद्धत्वाभावात् इति भाष्ये स्पष्टम् । प्रभौ परिवृढः । प्राग्वदिति ॥ तकारढत्वस्य हलोपस्य चेवत्यर्थः । कृच्छूगहनयोः ॥ कृच्छूशब्दो दुःखे तत्कारणे च वर्तते । कष्टं दुःखं तत्कारणञ्चेति ॥ “स्यात्कष्टड्कृच्छूमाभीलम्” इत्यमरकाशवाक्यम् । दुःखकारण उदाहरति । कष्टो मोह इति ॥ गहने उदाहरति । कष्टं शास्त्रमिति ॥ गहनशब्द विवृणोति । दुरवगाहमिति । घुषिरविशब्दने ॥ घुष्टा रज्जुरिति ॥ उत्पादितेत्यर्थः । आयामतेति वा । शब्देन अभिप्रायप्रकाशन विशब्दनम्। तदाह । शब्देनेति । अर्देः सन्नि विभ्यः ॥ समर्ण इति ॥ सम् अर्दू त इति स्थिते 'रदाभ्याम्' इति निष्ठातस्य पूर्व दकारस्य च नत्वम्, णत्वम् । अभेश्चाविदूर्ये ॥ अविदूरस्य भावः आविदूर्यम् । तस्मिन्