पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४२
[कृढ्न्त
सिध्दान्तकौमुदीसहिता

३०५३ आदिकर्मणि क्तः कर्तरि च । (३-४-७१)

आदिकर्मणि यः क्तः स कर्तरि स्यात् । चाद्भावकर्मणोः ।

३०५४ । विभाषा भावादिकर्मणोः । (७-२-१७)

भावे आदिकर्मणि च अदितो निष्ठाया इड़ा स्यान् । प्रस्वेदितचैत्र । प्रस्वेदितं तेन । ८ डिप विदा' इति भवादिरत्र ग्रह्यते, ऊपीद्भिः साहचर्यात् । विद्य तस्तु स्वादतः इत्यव । “डिप मिदा' : पि विदा' दिवादी भवादी च । प्रमेदि त:–प्रमेदितवान् । प्रक्ष्वेदित:-प्रक्ष्वेदितवान् । प्रधर्षितः-प्रधषितवान् । धर्षितं तेन । “सेट्’ किम् । प्रस्विन्नः । प्रस्विन्न तेनेत्यादि ।

३०५५ । ऋषस्तितिक्षायाम् । (१-२-२०)

सेण्निष्टा किन्न स्यात् । मर्षित:-मर्षितवान् । * तितिक्षायां' किम् । अपमृषितं वाक्यम् । अविस्पष्टमित्य

३०५६ । उदुपधाद्भावादिकर्मणोरन्यतरस्याम् । (१-२-२१)

उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात् । द्युतिम् द्योतितम् । मुदितं—मोदितं साधुना । प्रद्युतितः-प्रद्योतितः साधुः । प्रमुदित


दीर्घकालव्यासक्तायाः कटाद्युत्पादनक्रियाया. आरम्भकालविशिष्टोश" आदिकर्म । तत्र विद्यमाना द्धातोर्निष्ठा वक्तव्येत्यर्थ । तत्र आदेषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाभावात् भूते विहिता निष्ठा न प्राप्तल्यारम्भः । आदिकर्मणि क्तः कर्तरि च ॥ चान्द्रावकर्मणो रिति । “तयेोरेव कृत्य ' इत्यतस्तदनुवृत्तरिति भाव । “प्रकृत- कट देवदत्तः, प्रकृतवान् कट देवदत्तः” इति भाष्ये उदाहृतम् । आरभ्यमाणकरणक्रियेति बोधः । विभाषा भावादिकर्म णोः ॥ आदितो निष्ठाया इडेतेि ॥ “आदितश्च' इत्यतः आदित इति 'श्रीदतः' इत्यत निष्ठाग्रहण *नेड़ाश ' इत्यतो नेति चानुवर्तत इति भावः । निषेधस्य वैकल्पिकत्वात्पक्षे इडभ्यनुज्ञायते । प्रस्वेदितश्चैत्र इति । चैत्रकर्तृका आरभ्यमाणप्रखेदनाक्रयेत्यर्थः । अीद्भिरिति । त्रिः इत्येषान्ते जीत’, तैर्मिदिप्रभृतिभिरिति तदर्थ । स विषयः कित्त्वप्रति षेधस्येति बोध्यम् । स्विद्यतेस्त्विति ।! 'नि विदा गात्रप्रक्षरणे' इति दैवादिकस्यैव कित्त्व निषेधविधौ ग्रहणामित्यर्थ । स्विदितः इति ॥ 'विभाषा भाव' इति पक्षे इट् । कित्त्वनिषेधविधौ खिद्यतेहणाभावात् कित्त्वान्न गुण । अत्र खिदादीनाम् “आदितश्च' इति इट् प्रतिषिध्यते । भावादिकर्मणेोस्तु पक्षे इट् । मृष्यस्तिातिक्षायाम् ॥ तितिक्षा क्षमा । सेग्निष्ठा किन्नेति ॥ शेषपूरणमिदम् । ‘निष्ठा शीड्' इत्यतो निष्ठति “न खका सेट्’ इत्यतस्सेण्नेति “असयोगात् इत्यतः किदिति चानुवर्तत इति भावः । उदुपधाद्भावादिकर्मणोः । भावे उदाहरति । मुदितमित्यादि । आदिकर्मण्युदाहरति । प्रद्युतितः-प्रद्योतितः साधुरिति ॥