पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
[चुरादि
सिद्धान्तकौमुदीसहिता

वितनति । 'चन श्रद्धोपहननयोः' इत्येके । चानयति-चनति । वद १८४२ सन्देशवचने । वादयति । स्वरितेत् । वदति-वदते । अनुदात्तेदित्येके । ववदतुः । ववदिथ । ववदे । वद्यात् । वच १८४३ परिभाषणे । वाचयति-वचति । वक्ता । अवाक्षीत् । मान १८४४ पूजायाम् । मानयति-मानति । मानिता । विचारणे तु भौवादिको नित्यसन्नन्तः । स्तम्भे तु 'मानयते' (इत्याकुस्मीया:) 'मन्यते' इति दिवादौ । 'मनुते' इति तनादौ च । भू १८४५ प्राप्तावात्मनेपदी । भावयते—भवते । णिच्सन्नियोगेनैवात्मनेपदमित्येके । भवति । गर्ह १८४६ विनिन्दने । मार्ग १८४७ अन्वेषणे । कठि १८४८ शोके ।उत्पूर्वोऽयमुत्कण्ठायाम् । 'कण्ठते इत्यात्मनेपदी गतः । मृजू १८४९ शौचालङ्कारयोः । मार्जयति-मार्जति । मार्जिता-मार्ष्टा । मृष १८५० तितिक्षायाम् । स्वरितेत् । मर्षयति-मर्षति-मर्षते । मृष्यति—मृष्यते इति दिवादौ । सेचने शपि मर्षति । धृष १८५१ प्रसहने । धर्षयति-धर्षति । इत्याधृषीयाः ।

अथादन्तः । कथ १८५२ वाक्यप्रबन्धे । अल्लोपस्य स्थानिवद्भावान्न वृद्धिः । कथयति । अग्लोपित्वान्न दीर्घसन्वद्भावौ । अचकथत् । वर १८५३ ईप्सायाम् । वरयति । वारयतीति गतम् । गण १८५४ सङ्खयाने । गणयति ।


धातुराधृषीयो वेदितव्य इत्यर्थ । श्रद्धोपकरणयोस्त्वनुपसर्गादेवेति भावः । 'वच परिभाषणे' । अवाक्षीदिति ॥ अस्यतिवक्तीति लुका निर्देशादड् नेति भावः । वचिस्वपीति सम्प्रसारणम् । उच्यात् । इत्याधृषीयाः । अथादन्ता इति ॥ वक्ष्यन्ते इति शेषः । अन्ते अकारो नेत्संज्ञकः नाप्युच्चारणार्थ इति भावः । तत्र कथधातोर्णिचि अतो लोपे कथि इत्यस्मात् तिपि शपि गुणे अयादेशे कथयतीति रूप वक्ष्यति । तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह । अल्लोपस्य स्थानिवद्भावादिति ॥ अचः परस्मिन्नित्यनेनेति भावः । अत्रेदमवधेयम् । स्थानिनि सति शास्त्रीय यत्कार्य तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते । यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्य भावस्य अशास्त्रीयत्वान्नातिदेशः । अन्यथा नायक इत्यत्र ईकारस्थानिकस्य ऐकारस्य आयादेशानापत्तेः । ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात् । 'अचः परस्मिन् ' इत्यत्र तु स्थानिनि सति यत् शास्त्रीयङ्कार्यं प्रसज्यते तस्य तदभावस्य चाशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् । अतोऽत्र धकारादकारे सति प्रसक्तस्य उपधावृध्द्यभावस्य अशास्त्रीयत्वेऽप्यतिदेश इति सिद्धम् । लुङि चङि अचकथत् इत्यत्र सन्वत्त्वमाशङ्क्याह । अग्लोपित्वादिति ॥ सन्वत्त्वविषये जायमानोऽभ्यासदीर्घः सन्वत्त्वन्नापेक्षत इति पृथगुक्तिः । एवङ्कथादौ सर्वत्र ज्ञेयम् । गण सङ्ख्याने । चङि अल्लोपस्य स्थानि-