पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
[दिवादि
सिद्धान्तकौमुदीसहिता

हिंसार्थस्य सकर्मकतया दैवादिकत्वायोगात् । राद्धा । रात्स्यति । अयं स्वादिश्चुरादिश्च । व्यध ११८२ ताडने । ‘ग्रहिज्या –-’ (सू २४१२) इति सम्प्रसारणम् । विध्यति । विव्याध । विविधतुः । विव्याधिथ-विव्यद्ध । व्यद्धा । व्यत्स्यति । विध्येत् । विध्यात् । अव्यात्सीत् । पुष ११८३ पुष्टौ । पुष्यति । पुपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । 'पुषादि–-' (सू २३४३) इत्यङ् । अपुषत् । शुष ११८४ शोषणे । अशुषत् । तुष ११८५ प्रीतौ । दुष ११८६ वैकृत्ये । श्लिष ११८७ आलिङ्गने । श्लिष्यति । शिश्लेष । श्लेष्टा । श्लेक्ष्यति |

२५१४ । श्लिष:-

अस्मात्परस्यानिटश्च्लेः क्स: स्यात् । पुषाद्यङोऽपवादो न तु चिणः । पुरस्तादपावावदन्यायात् |


आह । हिंसार्थस्येति ॥ नोन्मिषत्येवैषा शङ्का । राधेरकर्मकस्यैव दैवादिकत्ववचनात् । हिंसार्थकस्य च राधेः सकर्मकतया दैवादिकत्वाभावादुक्तशङ्काया अनुन्मेषादित्यर्थः । ननु राध्नोति, राधयति, इति कथमित्यत आह । अयं स्वादिश्चुरादिश्चेति ॥ रराधिथ । क्रादिनियमात् नित्यमिट् । दीर्घकारवत्त्वेन 'उपदेशेऽत्वतः' इत्यस्याप्रवृत्तेः । अजन्तोऽकारवानित्यत्र च ह्रस्वाकारस्यैव विवक्षितत्वात् । राद्धा । अरात्सीत् । व्यध ताडने इति ॥ चतुर्थान्तोऽयम् । अनिट्। 'ग्रहिज्या' इति श्यनो डित्त्वात् 'लिट्यभ्यासस्य' इति यकारस्य सम्प्रसारणे पूर्वरूपे विध्यतीति रूपमित्यर्थः । वकारस्य तु न सम्प्रसारणम् । 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात् । विव्याधेति ॥ द्वित्वे कृते अभ्यासस्य 'लिट्यभ्यासस्य' इति सम्प्रसारणमिति भावः । विबिधतुरिति॥ परत्वात् ‘ग्रहिज्या’ इति सम्प्रसारणे कृते द्वित्वमिति भावः । भारद्वाजनियमात्थलि वेडित्यत आह । विव्याधिथ-विव्यद्धेति ॥ 'लिट्यभ्यासस्य' इति सम्प्रसारणम् ।अनिट्पक्षे 'झषस्तथोः' इति धः । अव्यात्सीदिति ॥ हलन्तलक्षणा वृद्धिः । पुषपुष्टौ । अनिट् । पुपोषिथेति ॥ अजन्ताकारवत्वाभावात् क्रादिनियमान्नित्यमिट् । अपुषदिति ॥ पुषाद्यङ्। डित्त्वान्न गुणः । शुषधातुरनिट् । अशुषदिति ॥ पुषाद्यङिति भावः । एवमग्रेऽपि । तुष् दुष् श्लिष् एते अनिटः । लुडि श्लिषः च्लेस्सिजादेशे प्राप्ते । श्लिष: ॥ च्लेरिति 'शल इगुपधात्' इत्यतः अनिटः क्स इति चानुवर्तते । तदाह । अस्मात्परस्येत्यादिना ॥ ननु 'शल इगुपधात्' इत्येव क्से सिध्दे किमर्थमिदमित्यत आह । पुषाद्यङोऽपवादः इति ॥ 'शल इगुपधात्' इति क्स बाधित्वा परत्वात् पुषाद्यङ् स्यात् तन्निवृत्तये पुनः क्सविधिरित्यर्थ. । ननु श्लिष इति क्सः यथा परमपि पुषाद्यङम्बाधते तथा 'चिण्भावकर्मणोः' इति चिणमपि परं बाधेत एवं सति 'उपाश्लेषि कन्या देवदत्तेन' इत्यत्र कर्मणि लुडि 'चिण्भावकर्मणोः' इति च्लेश्चिण् न स्यादित्यत आह । नतु चिणः इति ॥ 'श्लिषः' इति क्सविधिः 'चिण् भाव-