पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
[जुहोत्यादि
सिद्धान्तकौमुदीसहिता


कि ११०१ ज्ञाने । चिकेति । तुर ११०२ त्वरणे । तुतोर्ति । तुतूर्तः । तुतुरति । धिष ११०३ शब्दे । दिधेष्टि । दिधिष्टः । धन ११०४ धान्ये । दधन्ति । दधन्तः । दधनति । जन ११०५ जनने । जजन्ति ।

२५०४ । जनसनखनां सञ्झलोः । (६-४-४२)


बभस्सि | बब्ध । बब्ध । बभस्मि । बप्स्व. । बप्स्मः । बभास । बप्सतुः । बप्सुः । बभसिथ । बप्सथुः । बप्स । बभास-बभस । बप्सिव । बप्सिम । भसिता । भसिष्यति । बभस्तु-बब्धात् | बब्धाम् । बप्सतु । बब्धि-बब्धात् । बब्धम् । बब्ध । बभसानि । बभसाव । बभसाम । अबभः । अबब्धाम् । अबप्सुः । अबभ. । अबब्धम् । अबब्ध । अबप्सम् । अबप्स्व । बप्स्यात् । भस्यात् । अभासीत्-अभसीत् । अभसिष्यत् । कि ज्ञाने । चिकेतीति ॥ किधातोस्तिपि श्लौ द्वित्वे अभ्यासकुत्वे उत्तरखण्डस्य गुण इति भाव. । चिकित. । चिक्यति । चिकेषि । चिकिथः । चिकिथ । चिकेमि । चिकिवः । चिकाय । चिक्यतुः । चिकयिथ-चिकेथ । चिक्यिव । केता । केष्यति । चिकेतु-चिकितात् । चिकिताम् । चिक्यतु । चिकिहि । चिकयानि । अचिकेत् । अचिकिताम् । अचिकयुः । अचिकेः । अचिकयम्। अचिकिव । चिकियात् । कीयात् । अकैषीत् । अकेष्यत् । तुर त्वरणे इति ॥ तुतूर्तः इति ॥ 'हलि च' इति दीर्घः । तुतोर्षि। तुतूर्थः । तुतूर्थ। तुतोर्मि । तुतूर्व । तुतोर । तुतुरथु. । तुतोरिथ । तुतुरिव । तोरिता । तोरिष्यति । तुतोर्तु-तुतूर्तात् । तुतूर्ताम् । तुतुरतु । तुतूर्हि । तुतोराणि । अतुतोः । अतुतूर्ताम् । अतुतुरुः । अतुतोः । अतुतोरम् । अतुतूर्व । तुतूर्यात् । तूर्यात् । अतोरीत् । अतोरिष्यत् । धिष शब्दे सेट् । दिधेष्टीति ॥ श्लौ द्वित्वादौ लघूपधगुणे तकारस्य ष्टुत्वमिति भावः । दिधिषति । दिधेक्षि । दिधिष्ठः । दिधेष्मि । दिधिष्वः । दिधेष । दिधिषतुः । दिधेषिथ । दिधिषिव । धेषिता । धषिष्यति । दिधेष्टु-दिधिष्टात् । दिधिषतु । दिधिड्ढि । दिधेषाणि । अदिधेट् । अदिधिष्टाम् । अदिधिषुः । अदिधेषम् । अदिधिष्व । दिधिष्यात् । अधैषीत् । अधेषिष्यत् । धन धान्ये इति ॥ धान्यार्जने इत्यर्थः । दधन्तीति ॥ क्षमूष् स्हने इति धातोः चक्षंसे इतिवदनुनासिकस्य क्वीति न दीर्घः । दधसि | दधन्थ । दधन्मि । दधन्वः । दधन्मः । दधान । दधनतुः । दधनिथ । दधनिव । धनिता । धनिष्यति । दधन्तु-दधन्तात् । दधन्ताम् । दधनतु । दधन्हि । दधनानि । अदधन् । अदधन्ताम् । अदधनुः । अदधन् । अदधन्तम् । अदधन्त । अदधनम् । अदधन्व । अदधन्म । दधन्यात् । धन्यात् । अधानीत्-अधनीत् । अधनिष्यत् । जन जनने इति ॥ उत्पत्तौ अकर्मकः । उत्पादने सकर्मकः | जनसन ॥ 'विड्वनोः' इत्यत. आदित्यनुवर्तते । तदाह । एषामाकारोऽन्तादेशः इति ॥ सन् झल् इत्यनयोः द्वन्द्वात् सप्तमीद्विवचनम्। सनि झलि चेति लभ्यते। 'अनुदात्तोपदेशे' इत्यतः झलि क्ङितीत्यनुवर्तते । तत्र झलीत्यनुवृत्तेन सन् विशेष्यते । तदादिविधिः । झलादौ सनीति लभ्यते । क्डितीत्यनुवृत्तं तु एतत्सूत्रस्थेन झला विशेष्यते । तदादिविधिः । झलादौ क्डितीति लभ्यते । तथाच झलादौ सनीति झलादौ क्डितीति च परनिमित्तद्वयं लब्धम् । तदाह ।