पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
[जुहोत्यादि
सिद्धान्तकौमुदीसहिता

पृथग्भावे । वेवेक्ति-वेविक्ते । विवेजिथ । अत्र 'विज इट्' (सू २५३६) इति ङित्त्वं न 'ओ विजी' इत्यस्यैव तत्र ग्रहणात् । 'णिजिविजी' रुधादावपि । विष्लृ १०९५ व्याप्तौ । वेवेष्टि-वेविष्टे । लृदित्त्वादङ् । अविषत् । तङि क्सः । अजादौ 'क्सस्याचि' (सू २३३७) इत्यल्लोपः । अविक्षत । अविक्षाताम् । अविक्षन्त ।

अथ आगणान्तात्परस्मैपदिनश्छान्दसाश्च । घृ १०९६ क्षरणदीप्त्योः । 'जिघर्म्यग्निं हविषा घृतेन' । 'भृञामित्' (सू २४९६)| 'बहुलं छन्दसि' सू (३५९८) इतीत्त्वम् । हृ १०९७ प्रसह्यकरणे । अयं स्रुवोऽभिाजिहर्ति होमान् । ऋ १०९८ सृ १०९९ गतौ । बहुलं छन्दसि (३५९८) इत्येव सिद्धे 'अर्तिपिपर्त्योश्च' (सू २४९३) इतीत्त्वविधानादयं भाषायामपि । अभ्यास-


अनिक्षाताम् इत्यादि । विजिरपि णिजिर्वत् । अत्रेति ॥ थलि इट्पक्षे 'विज इट्' इति विहित डित्त्व नेत्यर्थ । अतो न गुणनिषेध इति भावः । ओ विजी इत्यस्यैवेति ॥ व्याख्यानादिति भाव । रुधादावपीति ॥ ततश्च ‘रुधादिभ्य. श्नम्’ इति श्नम्विकरणावपि ताविति भाव । बिष्लृ व्याप्तौ इति ॥ लृदित् उभयपदी अनिट् । णिजेरिव रूपाणि । वेवेष्टीति ॥ ष्टुत्वेन तकारस्य टः । सिपि ‘पढोः’ इति षस्य कत्वम् । वेवेक्षि । वेविष्ठः । वेविड्ढि । अविषदिति ॥ लृदित्त्वादडिति भावः । तङि क्सः इति ॥ 'शल इगुपधात्' इत्यनेनेति भावः । आगणान्तादिति ॥ जुहोत्यादिगणसमाप्तिपर्यन्तमित्यर्थः । घृधातुरनिट् । तिपि श्लौ द्वित्वे अभ्यासकार्ये गुणे रपरत्वे जघर्ति । जघृत । जघ्रति । 'जिघर्म्यग्नि हविषा घृतेन' इति बहृचमन्त्रपाठ. । 'जिघर्म्यग्नि मनसा घृतेन' इति तैत्तिरीयपाठः । अत्र इत्त्वमभ्यासस्य आह । भृञामिदिति ॥ ननु तत्र त्रयाणामेव ग्रहणमित्यत आह । बहुळमिति ॥ इत्त्व छान्दसमिति भावः । जघार । जघ्रतुः । जघर्थ । जघ्र । जघ्रिव । घरिष्यति । जघर्तु-जघृतात् । जघ्रतु । जघृहि । जघराणि । अजघः । अजघृताम् । अजघरु. । अजघरम् । अजघृव । जघृयात् । घ्रियात् । अघार्षीत् । अघरिष्यत् । हृ प्रसह्यकरणे इति ॥ घृधातुवद्रूपाणि । अयं स्रुवो अभिजिहर्ति होमानिति ॥ स्रुवे साद्यमाने याजमानो मन्त्रः । अत्रापि अभ्यासस्य इत्त्व छान्दसमिति भावः । ऋ सृ गताविति ॥ इमावनिटौ । तत्र ॠधातो. छान्दसत्वेऽपि लोकेऽपि क्वचित् प्रयोगं समर्थयति । बहुळमिति ॥ 'भृञामित्' । 'अर्तिपिपर्त्योश्च' 'बहुळ छन्दसि ' इति सूत्रस्थिति. । तत्र बहुळञ्छन्दसीत्येव ॠधातोरित्त्वसिद्धे. 'अर्तिपिपर्त्योश्च' इत्यर्तिग्रहणात् लोकेऽपि ॠधातोः श्लुविकरणस्य प्रयोगो विज्ञायते इत्यर्थः । एतच्चात्रैव सूत्रे भाष्ये स्पष्टम् । अत एव भष्यात् श्लुविकरणस्यैव ॠधातो. 'अर्तिपिपर्त्योश्च' इत्यत्र ग्रहणम् । पिपर्तिसाहचर्याच्च, श्लवित्यस्य अभ्यासग्रहणस्य चानुवृत्तेश्चेत्यलम् । अभ्यासस्यासवर्णे इति ॥ शपः श्लौ ॠ ति इति स्थिते द्वित्वे उरदत्त्वम्बाधित्वा 'अर्तिपिपर्त्योश्च' इत्यभ्या-