पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२२५
बालमनोरमा ।

२४९८ । जहातेश्च । (६-४-११६)

इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्षे ईत्त्वम् । जहितः-जहीतः। जहति । जहौ । जहितात् ।

२४९९ । आ च हौ (६-४-११७)

जहातेर्हौ परे आ स्याच्चादिदीतौ । जहाहि-जहिहि-जहीहि । अजहात् । अजहुः । अजहाः ।

२५०० । लोपो यि । (६-४-११८)

जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । 'एर्लिङि' (सू २३७४) हेयात् । अहासीत् । डु दाञ् १०९१ दाने । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । 'घ्वसोः–' (२४७१) इत्येत्त्वाभ्यासलोपौ । देहि ।


विशेष । तदाह । जिहीते इत्यादि ॥ इति भृञादयस्रयो गता । ओ हाक् त्यागे इति ॥ अनिट् । ओकारः ककारश्च इत् । जहातीति ॥ श्लौ द्वित्वे अभ्यासचुत्वमिति भाव. । तसादौ 'श्नाभ्यस्तयोरात.' इति नित्यमीत्त्वे प्राप्ते । जहातेश्च ॥ 'इद्दरिद्रस्य' इत्यतः इदिति 'भियोऽन्यतरस्याम्' इत्यत अन्यतरस्यामिति चानुवर्तते । 'गमहन' इत्यतः क्डितीति, 'ई हल्यघो.' इत्यतः हलीति च । इत्यभिप्रेत्य शेष पूरयति । इत्स्याद्वेति । जहतीति ॥ अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयो.' इत्याल्लोपः । जहाविति ॥ जहतु । जहुः । जहिथ-जहाथ । जहथुः । जह । जहौ । जहिव । जहिम । हाता । हास्यति । जहितादिति ॥ जहिताम्-जहीताम् । जहतु । आ च हौ ॥ आ इति लुप्तप्रथमाकम् । जहातेरिति ॥ 'जहातेश्च ' इत्यतः तदनुवृत्तेरिति भाव । चादिदीताविति ॥ 'इद्दरिद्रस्य' इत्यत. 'ई हल्यघो:' इत्यतश्च तयोरिह चकारेणानुकर्षादिति भावः । जहितात्-जहीतात् । जहितम्-जहीतम् । जहित-जहीत । जहानि । जहाव । जहाम । लड्याह । अजहादिति ॥ अजहिताम्-अजहीताम् । अजहुः । अजहाः इति ॥ अजहितम्-अजहीतम् । अजहित-अजहीत । अजहाम् । अजहिव-अजहीव । अजहिम-अजहीम । लोपो यि ॥ 'जहातेश्च' इत्यतो जहातेरिति 'श्नाभ्यस्तयोरात.' इत्यतः आत इति, 'अत उत्सार्वधातुके' इत्यत सार्वधातुके इति चानुवर्तते । यि इति सप्तम्यन्त सार्वधातुकविशेषणम् । तदादिविधि. । तदाह । जहातेरित्यादिना ॥ 'जहातेश्च' इत्यस्यापवाद. । आशीर्लिङ्याह । एर्लिङीति । अहासीदिति ॥ 'यमरम' इति सगिटौ । अहास्यत् । डु दाञ् उभयपदी । अनिट् । प्रणिददातीति ॥ 'नेर्गद' इति णत्वत् । दत्तः इति ॥ ददा तस् इति स्थिते अघोरिति पर्युदासादित्त्वाभावे 'श्नाभ्यस्तयो.' इत्याल्लोपः । ददतीति ॥ अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः' इत्याल्लोप इति भाव । ददासि । दत्थः । दत्थ । ददामि । दद्वः । दद्मः । दत्ते इति ॥ ददाते । ददते । दत्से । ददाथे। दद्ध्वे । ददे । दद्वहे । दद्महे । ददौ इति ॥ 29