पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७२
[नामधातु
सिद्धान्तकौमुदीसहिता

ग्रहणमित्युक्तम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किङ्काम्यति । स्वःकाम्यति ।

२६६४ । उपमानादाचारे । (३-१-१० )

उपमानात्कर्मणः सुबन्तादाचारार्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् । 'अधिकरणाच्चेति वक्तव्यम्' (वा १७१७) । प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रासादे ।

२६६५ । कर्तुः क्यङ् सलोपश्च । (३-१-११)

उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् । सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तेः पक्षे वाक्यम् । सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः । स च व्यवस्थितः । 'ओजसोऽप्सरसो नित्यमितरेषां


यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह । यस्य इतीति ॥ 'यस्य हल:' इत्यत्र यस्येत्यनेन यकाराकारसङ्घातग्रहणमित्यनुपदमेवोक्तमित्यर्थः । तथाच बेभिद्य इता इति स्थिते यङो यस्य सङ्घातस्यार्थवत्त्वाद्यकारलोपो निर्बाधः । प्रकृते तु काम्यजेकदेशस्य यस्यानर्थकत्वाल्लोपो नेति भावः । यशस्काम्यतीति ॥ 'सोऽपदादौ' इति सत्वम्। ननु किमात्मनः इच्छति किङ्काम्यति स्व.काम्यतीति कथम् । मान्ताव्ययानां नेत्यनुवृत्तेरित्यत आह । मान्ताव्ययेभ्योऽप्ययमिति ॥ उपमानादाचारे ॥ 'सुप आत्मनः क्यच्' इत्यनुवर्तते । 'धातोः कर्मणस्समानकर्तृकात्' इत्यतो धातोरिति । तदाह । उपमानात्कर्मणः इत्यादिना ॥ उपमान यत्कर्मकारक तद्वृत्तेस्सुबन्तादित्यर्थः । पुत्रमिवेति ॥ 'धातो. कर्मण.' इत्यतः वेत्यनुवृत्तिरनेन सूचिता । छात्र पुत्रत्वेन उपचरतीत्यर्थः । विष्णूयतीति ॥ द्विज विष्णुत्वेन उपचरतीत्यर्थः । अधिकरणाच्चेति ॥ उपमानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थ. । प्रासादीयति कुट्यामिति ॥ प्रासाद इव कुट्यां हृष्टो वर्तते इत्यर्थः । कुटीयति प्रासादे इति ॥ कुट्यामिव प्रासादे क्लिष्टो वर्तते इत्यर्थः । कर्तुः क्यङ् सलोपश्च ॥ कर्तुरित्यावर्तते । कर्तुः क्यङित्येक वाक्यम् । अत्र कर्तुरिति पञ्चम्यन्तम् । उपमानादाचारे इत्यनुवर्तते । 'धातोः कर्मण.' इत्यतः वेति च । तदाह । उपमानादिति ॥ उपमानं यत्कर्तृकारक तद्वृत्ते सुबन्तादित्यर्थः । कर्तु सलोपश्चेति द्वितीय वाक्यम् । चकारः तुपर्यायः भिन्नक्रमः । स इति लुप्तषष्ठीक पृथक्पदम् । कर्तुरिति षष्ठ्यन्तस्य विशेषणम् । तदन्तविधिः । तदाह । सान्तस्य त्विति ॥ पक्षे इति ॥ क्यङभावपक्षे इत्यर्थः । क्यङभावपक्षे सकारलोप इति भ्रम वारयति । सान्तस्य लोपस्त्विति ॥ एतच्च महाभाष्ये स्पष्टम् । क्यङि सलोपविकल्पः स्यादित्यत आह । स च व्यवस्थितः इति ॥ सान्तस्य सलोप इत्यर्थः । व्यवस्थामेव दर्शयति । ओजसोऽप्सरसः इति ॥ इदं वर्तिकम् । ओज-