पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
[यङ्
सिद्धान्तकौमुदीसहिता

आर्धधातुकत्वं यथा स्यात् । तेन 'बुवो वचिः' (सू २४५३) इत्यादि । 'एकाचः' किम् । पुनःपुनर्जागर्ति । 'हलादेः' किम् । भृशमीक्षते । भृशं शोभते रोचते इत्यत्र यङ् नेति भाष्यम् । पौनःपुन्ये तु स्यादेव । रोरुच्यते । शोशुभ्यते । 'सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः' (वा १७५१) । आद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूत्र्यते । अनेकाच्कत्वेनाषोपदेशत्वात्षत्वं न । मोमूत्र्यते ।

२६३१ । यस्य हलः । (६-४-४९)

'यस्य' इति सङ्घातग्रहणम् । हलः परस्य यशब्दस्य लोपः स्यादा-


हारे' इति विहितलोडन्तमात्रविषयत्वात् । अत एव 'क्रियासमभिहारे लोट्' इति सूत्रभाष्ये 'क्रियासमभिहारे लोण्मध्द्यमपुरुषैकवचनस्य द्वे वाच्ये' इत्येव पठितम् । पौनःपुन्ये यडि तु 'नित्यवीप्सयोः' इति न द्वित्वम् । 'क्रियासमभिहारे द्वे' इत्यनेन पौनःपुन्येऽपि लोडन्तद्वित्वविधानेन पौनःपुन्यस्य अन्यतो लाभे सौत्रद्वित्वाप्रवृत्तेर्ज्ञापनादित्यलम् । धातोः किमिति ॥ 'क्रियासमभिहारे' इत्यनेनैव धातोर्लाभात्किमर्थ धातुग्रहणमिति प्रश्न । आर्धधातुकत्वमिति ॥ धातोरित्यभावे आर्धधातुकत्वन्न स्यात् । धातोरिति विहितप्रत्ययस्यैव आर्धधातुकत्वादिति भाव: । ब्रुवः इति ॥ यड: आर्धधातुकत्वे सत्येव तस्मिन् परे 'ब्रुवो वचिः' 'वेञो वयिः' इत्यादि कार्य सिध्द्यति । अन्यथा 'आर्धधातुके' इत्यधिकृत्य तद्विधानान्न स्यादिति भाव. । भृशमीक्षते इति ॥ नच भृशशब्देनैवात्र भृशार्थभानात् यड् न भविष्यतीति वाच्यम् । भृशत्व हि यड्द्योत्यम्, नतु वाच्यम् । द्योतनञ्च उक्तस्यापि सम्भवतीति भावः । यङ् नेति ॥ अनभिधानादिति भाष्ये स्पष्टम् । पौनःपुन्ये त्विति ॥ पुनःपुनश्शब्दसमभिहारेऽपि यडस्त्येव । भृशार्थ एवानभिधानोक्तेरिति भावः । सूचिसूत्रीति ॥ सूचि सूत्रि मूत्रि अटि अर्ति अशू ऊर्णोति एषान्द्वन्द्वः ! 'सूच पैशुन्ये, सूत्र वेष्टने, मूत्र प्रस्रवणे' एते त्रयश्चुराद्यन्तर्गणे कथादावदन्ता. । तेषामनेकाच्त्वादप्राप्तौ यड्वचनमित्याह । आद्यास्त्रयः इति ॥ 'अट गतौ, ॠ गतौ, अश भोजने, अशू व्याप्तौ' एषा हलादित्वाभावाद्वचनम् । ऊर्णञस्तु हलादित्वाभावादेकाच्त्वाभावाच्च वचनम् । सोसूच्यते इति ॥ ण्यन्ताद्यडि णिलोपे द्वित्वे 'गुणो यडलुको' इति अभ्यासगुणः । सूचे षोपदेशत्वभ्रम वारयति । अनेकाच्कत्वेनेति ॥ षोपदेशत्वे तु 'धात्वादेः' इति षस्य सत्वे कृते आदेशसकारत्वादुत्तरखण्डस्य षत्वं स्यादिति भावः । लिटि सोसूचि आमिति स्थिते । यस्य हलः ॥ यकारादकारस्य उच्चारणार्थत्वभ्रम वारयति । सङ्घातग्रहणमिति ॥ यकाराकारसमुदायस्येत्यर्थ । हलः इति पञ्चमी । 'आर्धधातुके' इत्यधिकृतम् । 'अतो लोपः' इत्यस्मात् लोप इत्यनुवर्तते । तदाह । हलः परस्येत्यादिना ॥ ननु 'अलोऽन्त्यस्य' इति यकारादकारस्य लोपः स्यादित्यत आह ।