पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
[सन्
सिद्धान्तकौमुदीसहिता

तिष्ठासति । सुषुप्सति । अभ्यासादित्युत्तेर्नेह निषेधः । इण् । प्रतीषिषति । इक् । अधीषिषति ।

२६२८ । सः स्विदिस्वद्विसहीनां च । (८-३-६२)

अभ्यासेण: परस्य ण्यन्तानामेषां सस्य स एव न ष: षणि परे । सिस्वेदयिषति—सिस्वादयिषति । सिसाहयिषति । 'स्थादिष्वेवाभ्यासस्य' इति नियमान्नेह । अभिसुसूषति ।

'शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः

सरूपप्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ।।' (भाष्यम्)

शैषिकाच्छैषिकः सरूपो न । तेन शालीये भव इति वाक्यमेव, न तु छान्ताच्छः । 'सरूपः' किम् । अहिच्छत्त्रे भव आहिच्छत्रः । आहिच्छत्त्रे भव आहिच्छत्त्रीयः । अण्णन्ताच्छः । तथा मत्वर्थात्सरूप: स न । धनवानस्यास्ति । इह मतुबन्तान्मतुब्न । विरूपस्तु स्यादेव । दण्डिमती शाला । 'सरूपः'


अभ्यासादित्युक्तेर्नेहेति ॥ प्रतीषिषतीति ॥ इण्धातोस्सनि 'अजादेर्द्वितीयस्य' इति स इत्यस्य द्वित्वे अभ्यासेत्त्वम् । इह षभूते सनि 'इण् गतौ' इति धातो. परस्य सस्य षत्व भवत्येव । अभ्यासेण परत्वे सत्येव नियमप्रवृत्तेरिति भाव. ।अधीषिषतीत्यप्येवम् । सः स्विदि ॥ सः स्विदीति छेद । 'स्तौतिण्योरेव षण्यभ्यासात्' इति सूत्र स्तौतिवर्जमनुवर्तते । 'सहेः साढ. सः' इत्यतस्स इति षष्ठ्यन्तञ्च । तदाह । अभ्यासेणः इति ॥ सकारविधिर्नियमार्थः इत्याह । सस्य स एवेति ॥ सुनोतेस्सनि 'स्तौतिण्योः' एवेति नियमादुत्तरखण्डस्य षत्वाभावे अभिसुसूषतीत्यत्र 'उपसर्गात्सुनोति' इत्यभ्यासस्य षत्वमाशङ्क्य आह । स्थादिष्वेवेति ॥ शैषिकादिति ॥ सन्विधायकसूत्रस्थमिदं वार्तिकम् । शैषिकात्सरूपः शैषिकः प्रत्ययो न । मतुबर्थीयात् सरूपो मतुबर्थिकः प्रत्ययो नेत्यन्वयः । शेषाधिकारे विहितः शैषिक. । भवार्थे अध्यात्मादित्वाट्ठञ् । मतुबर्थे भवो मतुबर्थीयः गहादित्वाच्छः । मतुबर्थोऽस्यास्तीति मतुबर्थिकः । 'अत इनिठनौ' इति ठन् । शालीये इति ॥ शालायां भवः शालीयः । 'वृद्धाच्छः' शालीये भव इत्यर्थे शालीयशब्दात् पुनः छो नेत्यर्थः । आहिच्छत्त्रे भवः इति ॥ आहिच्छत्त्रशब्दो भवार्थे अणन्तः । ततो भवार्थे 'वृद्धाच्छ.' इति छ एव भवति । नतु पुनरणिति भावः । ननु जुगुप्सिषते इत्यादौ कथं सन्नन्तात् सन्नित्यत आह । सरूपः इत्यनुषज्यते इति ॥ सन्नन्तान्न सनिष्यते इत्यत्रापि सरूप इत्यनुषज्यते इत्यर्थः । नन्वेव-