'णौ च संश्चङोः' (सू २५७९) (सू २६०१) इति सूत्राभ्यामिङो गाङ्, श्वयतेः सम्प्रसारणं च वा । अधिजिगापयिषति-अध्यापिपयिषति । शिश्वाययिषति-शुशावयिषति । 'ह्वः सम्प्रसारणम्' (सू २५८६) । जुहावयिषति । 'णौ द्वित्वात्प्रागच आदेशो न' इत्युक्तत्वादुकारस्य द्वित्वम् । पुस्फारयिषति । चुक्षावयिषति । 'ओः पुयण्ज्यपरे' (२५७७) । पिपावयिषति । यियावयिषति । बिभावयिषति । रिरावयिषति । लिलावयिषति । जिजावयिषति । 'पुयण्जि'
तथापि सन्नियोगशिष्टत्वात् प्रत्ययस्य निमित्तत्व पर्यवसानगत्येति बोध्द्यम् । वस्तुतस्तु पुष्ययोग जानाति पुष्येण योजयतीत्येतत्साधके पुष्ययोगेति वचने भाष्योक्तप्रकृतिप्रत्यापत्तिरित्यनुवृत्तिरिह ज्ञापिका । तत्र हि 'चजोः' इति घिति परत. कुत्वम् । अन्यथा कृल्लुकि निमित्तापायपरिभाषयैव कुत्वनिवृत्तौ किं प्रकृतिप्रत्यापत्त्यनुवृत्त्येति शब्देन्दुशेखरे विस्तरः । अथ 'इड् अध्द्ययने' 'टु ओ श्वि गतिवृध्द्यो' इत्याभ्यां ण्यन्ताभ्यां सनि विशेषमाह । णौ चेति ॥ 'णौ च संश्चडोः' इति सूत्र द्वितीयस्य चतुर्थे पादे षष्ठस्य प्रथमे पादे च स्थितम् । सन्परे चड्परे च णौ इडो गाड्वेति प्रथमस्यार्थः। सन्परे चड्परे च णौ श्वयतेः सम्प्रसारण वेति द्वितीयस्यार्थः। प्रथमसूत्रेण इडो गाड, द्वितीयसूत्रेण श्वयतेस्सम्प्रसारणमित्युभयमपि पाक्षिकं भवतीत्यर्थ । अधिजिगापयिषतीति ॥ इडो णौ विवक्षिते गाडि पुकि गापि इत्यस्मात्सनि रूपम् । 'णौ च संश्चडोः' इति गाड्विधौ विषयसप्तमीति प्रागेवोक्तम् । गाडभावे आह । अध्यापिपयिषतीति ॥ 'क्रीड्जीनां णौ' इत्यात्त्वे पुक् । शिश्वाययिषतीति ॥ श्विधातोर्णौ वृद्धावायादेशे श्वायि इत्यस्मात्सनि सम्प्रसारणाभावे रूपम् । सम्प्रसारणपक्षे आह । शुशावयिषतीति ॥ ण्यन्तात्सनि इटि श्वि इ इस इति स्थिते 'सम्प्रसारणन्तदाश्रयञ्च कार्यम्बलवत्' इति वचनात्प्रथम सम्प्रसारण पूर्वरूपम् । शु इत्यस्य द्वित्वे उत्तरखण्डे उकारस्य वृद्धावावादेशे णिचो गुणायादेशाविति भावः । ह्वः सम्प्रसारणमिति ॥ हेतुमण्ण्यन्तप्रक्रियाया व्याख्यातम् । जुहावयिषतीति ॥ ह्वेञो ण्यन्तात्सनि इटि प्रथम सम्प्रसारण पूर्वरूपम् । हु इत्यस्य द्वित्वम् । उकारस्य वृध्द्यावादेशौ णिचो गुणायादेशाविति भावः । ननु परत्वात् द्वित्वात् प्रागेव उकारस्य वृध्द्यावादेशयोः कृतयोः हाव् इत्यस्य द्वित्वे अभ्यासस्यात इत्त्वे इकार एव श्रूयेतेत्यत आह । णौ द्वित्वादिति ॥ पुस्फारयिषतीति ॥ स्फुरते. ण्यन्तात्सनि इटि 'चिस्फुरोर्णौ' इत्यस्मात् प्रागेव स्फुर् इत्यस्य द्वित्वम् । द्वित्वे कार्ये णावच आदेशस्य निषेधात् । 'ओः पुयण्जि' इति इत्त्वन्तु न । फकारस्य सकारेण व्यवहिततया पवर्गपरत्वाभावात् ।चुक्षावयिषतीति ॥ क्षुधातोः ण्यन्तात् सनि इटि क्षु इत्यस्य द्वित्वम् । परिनिष्ठिते रूपे अवर्णपरत्वेन णावच आदेशस्य निषेधादिति भाव . । ओः पुयणिति ॥ हेतुमण्णिच्प्रक्रियायामिदं व्याख्यातमपि स्मार्यते । पिपावयिषतीत्यादि ॥ पू भू यु रु लू जु एभ्यो ण्यन्तेभ्य सनि इटि द्वित्वे कार्ये णावच आदेशनिषेधात् उवर्णान्तानामेव द्वित्वे अभ्यासोवर्णस्य इत्त्वमिति भाव । जुः सौत्रो धातुः । 'जुचङ्क्रम्य' इत्यत्रोक्तः । अथ 'स्रवतिशृणोति' इति सूत्र हेतुमुण्णिच्प्रक्रियायां व्याख्यात