पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
[सन्
सिद्धान्तकौमुदीसहिता

त्वननुभवन्नपि' (प ११) । न चेह सन् द्वित्वमनुभवति । बुभूर्षति- बिभरिषति । ज्ञपिः पुगन्तो मित्संज्ञः पकारान्तश्चौरादिकश्च इडभावे 'इको झल्' (सू २६१२) इति कित्त्वान्न गुणः । 'अज्झन–' (सू २६१४) इति दीर्घः ।परत्वाण्णिलोपेन बाध्यते । 'आप्ज्ञप्--' (सू २६१९) इति ईत् । ज्ञीप्सति--जिज्ञपयिपति । अमितस्तु जिज्ञापयिषति । 'जनसन--' (सू २५०४) इत्यात्त्वम् । सिषासति-सिसनिषति । तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः' (वा ५०५९) ।

२६२२ । तनोतेर्विभाषा । (६-४-१७)

अस्योपधाया दीर्घो वा स्याज्झलादौ सनि । तितांसति-तितंसति-तित-


न चेह सन्निति ॥ किन्तु नुशब्द इत्यर्थ । बुभूर्षतीति ॥ सनीवन्तेति इडभावपक्षे भृ स इति स्थिते 'अज्झन' इति दीर्घे 'उदोष्ठ्यपूर्वस्य' इत्युत्त्वे रपरत्वे उत्तरखण्डस्य 'हलि च' इति दीर्घः । सन. कित्त्वान्न गुण इति भाव. । इट्पक्षे आह । बिभरिषतीति ॥ भृ इस इति स्थिते द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे अभ्यासस्य अत इत्त्वे उत्तरखण्डस्य गुणे रपरत्वमिति भावः । ज्ञपिः पुगन्तो मित्सज्ञक इति 'सनीवन्त' इति सूत्रे गृह्यत इति शेषः । 'मारणतोषणनिशामनेषु ज्ञा' इति घटादौ ततो हेतुमण्णौ पुकि घटादित्वेन मित्त्वात् उपधाह्रस्वे ज्ञपीति ण्यन्तो गृह्यत इत्यर्थः । पकारान्तश्चौरादिकश्चेति ॥ 'ज्ञपमिच्च' इति यः स्वतः पकारान्तः पठित चुरादौ न तु पुगन्तः सोऽपि 'सनीवन्त' इति सूत्रे गृह्यते इत्यर्थः । इडभावे इति ॥ उभयविधादपि ण्यन्तात् ज्ञपि इत्यस्मात् सनि इडभावपक्षे णे परस्य सनः 'इको झल्' इति कित्त्वाण्णेर्गुणो नेत्यर्थ । परत्वादिति ॥ णेर्लोपे सति अचोऽभावान्न दीर्घ इति भावः । तथाच ज्ञीप् इत्यस्य द्वित्वे हलादिशेषे 'अत्र लोपः' इत्यभ्यासलोपे परिनिष्ठितमाह । ज्ञीप्सतीति ॥ इट्पक्षे आह । जिज्ञपयिषतीति ॥ अमितस्त्विति ॥ मारणादिव्यतिरिक्तार्थकस्य घाटादिकस्य हेतुमण्ण्यन्तस्य 'ज्ञा नियोगे' इति चौरादिकण्यन्तस्य च मित्त्वाभावेन उपधाह्रस्वाभावात् 'सनीवन्त' इत्यत्र ज्ञपिग्रहणेनाग्रहणान्नित्यमेव इडिति भावः । तदाह । जिज्ञापयिषतीति ॥ सनधातोस्सनि आह । जनसनेत्यात्त्वमिति ॥ नकारस्येति शेषः । सिषासतीति ॥ आत्त्वे कृते सा इत्यस्य द्वित्वे अभ्यासस्य ह्रस्वे अत इत्त्वे षत्वे रूपम् । नच 'स्तौतिण्योः' एवेति नियमान्न ष इति शङ्क्यम् । सनः षत्वे सत्येव तत्प्रवृत्ते । इडभावे त्वाह । सिसनिषतीति ॥ अत्र 'जनसन' इत्यात्त्वन्तु न । सनो झलादित्वाभावात् स्तौतिण्योः' एवेति नियमान्न ष इति भाव. । तनिपतीति ॥ प्राप्तविभाषेयम् । तनोर्तेर्विभाषा ॥ उपधाया दीर्घः इति ॥ 'नोपधायाः' इत्यत 'ढ्रलोपे' इत्यतश्च तदनुवर्तते इति भाव: । झलादौ सनीति ॥ 'अज्झन' इत्यतस्तदनुवर्तते । तत्र झलादाविति भाष्ये


इद च 'सनीवन्त-' (सू २६१८) इति सूत्रे एव 'भरज्ञपिसनितनिपतिदरिद्राणाम् इति केचित्पठन्तीति सूत्रशेषभूतमिति काशिका । अपर वार्तिकमेवेति कैयटाशयः ।