पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२०
[णिच्
सिद्धान्तकौमुदीसहिता

आभ्यां ण्यन्ताभ्यामात्मनेपदं स्याद्धेतोश्चद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ।

२५९५ । भियो हेतुभये षुक् । (७-३-४०)

'भी' 'ई' इति ईकारः प्रश्लिष्यते । ईकारान्तस्य भियः षुक्स्याण्णौ । हेतुभये । भीषयते ।

२५९६ । नित्यं स्मयतेः । (६-१-५७)

स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भयस्मयावित्युक्त्तेर्नेह । कुञ्चिकयैनं भापयति । विस्माययति । कथं तर्हि 'विस्मापयन्विस्मितमात्मवृत्तौ' इति । 'मनुष्यवाचा' इति करणादेव हि तत्र


इत्यतः आत्मनेपदमिति 'णेरणौ' इत्यतो णेरिति चानुवर्तते । हेतुः प्रयोजकः । तदाह । आभ्यां ण्यन्ताभ्यामित्यादि ॥ अकर्त्रभिप्रायार्थमिदम् । ननु हेतोश्चेत् भयस्मयावित्यनुपपन्नम् । सूत्रे स्मयग्रहणाभावादित्यत आह । सूत्रे भयेति ॥ सूत्रे भयग्रहण स्मिड्धात्वर्थस्य स्मयस्याप्युपलक्षणमित्यर्थः । मुण्डो भापयते इति ॥ अत्र आत्त्वं पुक् आत्मनेपदञ्च । भिय आत्त्वाभावपक्षे विशेषमाह । भियो हेतुभये षुक् ॥ भी ई इति द्वयोस्सवर्णदीर्घे भीशब्दात् षष्ठीति भाव. । इदञ्च स्थानिवत्सूत्रे भाष्ये स्पष्टम् । ईकारप्रश्लेषलब्धमाह । ईवकारान्तस्येति ॥ तेन आत्त्वपक्षे न षुगिति फलितम् । णाविति ॥ 'अर्तिह्री' इत्यतस्तदनुवृत्तेरिति भाव . । नित्यं स्मयतेः ॥ 'आदेच उपदेशे' इत्यत एच इति, आदिति, चानुवर्तते । 'चिस्फुरोः' इत्यतो णाविति 'बिभेतेर्हेतुभये' इत्यतः हेतुभये इति च । तत्र भयग्रहण स्मयस्याप्युपलक्षणम् । अत्र तु स्मय एव विवक्षित । स्मयतेर्भीत्यर्थकत्वासम्भवात् । तदाह । स्मयतेरेच इत्यादि ॥ 'विभाषा लीयतेः' इत्यतो विभाषानुवृत्तिनिवृत्तये नित्यग्रहणम् । अथ 'बिभेतेर्हेतुभये' इति 'नित्यं स्मयते.' इति च आत्त्वविधौ 'भीस्म्योर्हेतुभये' इति आत्मनेपदविधौ च हेतुग्रहणस्य प्रयोजनमाह । हेतोश्चेत् भयस्मयावित्युक्तेर्नेहेति ।कुञ्चिकयैनमिति ॥ केशबन्धविशेषः कुञ्चिका । तस्याश्च करणतया प्रयोजककर्तृत्वाभावात् आत्त्व षुक् च नेति भावः । आक्षिपति कथमिति । रघुवंशकाव्ये “तमार्यगृह्यं निगृहीतधेनुः मनुष्यवाचा मनुवशकेतुम् । विस्मापयन्विस्मितमात्मवृत्तौ सिंहोरुसत्वन्निजगाद सिंहः ॥” इति श्लोके विस्मापयन्निति कथमित्याक्षेपः । प्रयोजकाद्भयाभावेन आत्त्वपुगनुपपत्तेरिति भाव. । ननु मनुष्यवागेव तत्र प्रयोजिकेत्यत आह । मनुष्येति ॥ मनुष्यवाचेति तृतीयान्तगम्यकरणात् मनुष्यवागात्मकादेव हि तत्र स्मयः । ननु करणभूतापि मनुष्यवाक् प्रयोजिका कुतो नेत्यत आह । अन्यथेति ॥ मनुष्यवाच. स्मयप्रयोजकत्वमभ्युपगम्य आत्त्वाश्रयणे 'भीस्म्योर्हेतुभये' इत्यात्मनेपदमपि स्यादित्यर्थः । स्मयोऽत्र प्रयोजकमूलको नेति युक्तमेव । किन्त्वात्त्वपुगाक्षेपो न