पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
५५
बालमनोरमा ।

२२६६ । इट ईटि । (८-२-२८)

इटः परस्य सस्य लोपः स्यादीटि परे ।

सिज्लोप एकादेशे सिद्धो वाच्यः ।

आतीत् । आतिष्टाम् । आतिषुः ।

२२३७ । वदव्रजहलन्तस्याचः । (७-२-३)

वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ।

२२६८ । नेटि । (७-२-४)

इडादौ सिचि प्रागुक्तं न स्यात् । मा भवानतीत् । अतिष्टाम् । अतिषुः । 'चिती ३९ संज्ञाने' । चेतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः । 'च्युतिर् ४० आसेचने' । आसेचनमार्द्रीकरणम् । आङीषदर्थेऽभिव्याप्तौ च ।


अस्ति सिचोऽपृक्त इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः । इटईटीति ॥ इट इति पञ्चमी रात्सस्येत्यतः सस्येति सयोगान्तस्येत्यतो लोप इति चानुवर्तते तदाह । इटः परस्येति ॥ एवञ्च आति स् ई त् इति स्थिते सकारस्य लोपे आति ई त् इति स्थिते सवर्णदीर्घे आतीदिति रूपम् वक्ष्यति । तत्र सलोपस्यासिद्धत्वात् कथं सवर्णदीर्घ इत्यत आह । सिज्लोप एकादेशे सिद्धो वक्तव्य इति । आतिष्टामिति ॥ लुडस्तस् । तस्य ताम् । च्लेः सिच् । तस्य इटि आटि वृद्धौ षत्वम् । अपृक्तत्वाभावेन ईडभावात् सलोपो न । आतिषुरिति ॥ लुडो झिः । च्ले. सिच् । जुस् इट् आट् वृद्धिः षत्व रुत्वविसर्गौ । आतीः । आतिष्टम् । आतिष्ट । आतिषम् । आतिष्व । आतिष्म । अत्र वृद्धिमाशङ्कितुमाह । वदव्रजेति ॥ वद व्रज हलन्त. एषां समाहारद्वन्द्वात् षष्ठ्येकवचनम् । अङ्गस्येत्यधिकृतम् । सिचि वृद्धिः परस्मैपदेष्वित्यनुवर्त्तते । तदाह । वदेत्यादिना ॥ हलन्तत्वादेव सिद्धे वदव्रजग्रहणन्तु अवादीदव्राजीदित्यत्र अतोहलादेर्लघोरिति वृद्धिविकल्पबाधनार्थम् । नेटीति । प्रागुक्तन्नेति ॥ वदव्रजहलन्तस्याच इत्युक्तं नेत्यर्थः । तत्र वदव्रजयोर्विशिष्य विधानात् हलन्तलक्षणाया एव वृद्धेर्निषेधोऽयम् । हलन्तलक्षणा वृद्धिस्तु अधाक्षीदित्यादावनिडादौ सिचि चरितार्था । नन्वातीदित्यादौ अकारस्य वृद्धौ सत्यामसत्याञ्च आटा एकादेशे सति रूपे विशेषाभावात् किन्तन्निषेधेनेत्याशङ्क्येत्याह । माभवानतीदिति ॥ माङ्योगे आडभावे सति वृद्धिनिषेधः सफल इति भावः । चितीति ॥ ईदित्व श्वीदितो निष्ठाया इति इण्णिषेधार्थम् । चेततीति ॥ शपि लघूपधगुणः । चिचेतेति ॥ तिबादेशणल पित्वेन असयोगादिति कित्वस्याप्रवृत्तेः न गुणनिषेध चिचिततुरित्यादौ तु कित्वान्न गुणः । अचेतीदिति ॥ इट ईटीति सलोप । अचेतिष्टामिति ॥ अपृक्तत्वाभावादीडभावान्नसिज्लोप. । नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः । च्युतिरिति ॥ अत्र इकारस्य रेफस्य