पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२६१ । थलि च सेटि । (६-४-१२१)

प्रागुक्तं स्यात् । आदेशश्चेह वैरूप्यसम्पादक एवाश्रीयते । शासिदद्योः प्रतिषेधवचनाज्ज्ञापकात् । तेन प्रकृतिजश्चरां तेषु सत्स्वपि एत्वाभ्यासलोपौ स्त एव । देधे । देधाते । देधिरे । 'अत:' किम् । दिदिवतुः । 'तपरः' किम् । ररासे । 'एक-' इत्यादि किम् । तत्सरतुः । 'अनादेशादेः' किम् । चकणतुः । लिट आदेशविशेषणादिह स्यादेव । नेमिथ । सेहे । 'स्कुदि ९ आप्रवणे' । आप्रवणमुत्प्लवनमुद्धरणं च ।


थलिचेति । प्रागुक्तमिति ॥ अत एकहल्मध्य इति यत् प्रागुक्त एत्वादि तत् सेटि थलि च स्यादित्यर्थः । थल. कित्वाभावात् पूर्वसूत्रेणाप्राप्तौ वचनम् । ननु देधे पेततुरोत्यादौ अभ्यासे चर्चेति जशा चराञ्च जाशि चरिच लिण्णिभित्तादेशादित्वात् कथमेत्वाभ्यासलोपावित्यत आह । आदेशश्चेति ॥ इह अतएकहल्मध्य इति सूत्रे । आदेशशब्देन स्थान्यपेक्षया विरूप एवादेशो विवक्षितः । तथाच तथाविधादेशादेरेव एत्वाभ्यासलोपौ न भवतः । स्थानिसरूपादशादस्तु न पर्युदास इत्यर्थ. । शसिदद्योरिति ॥ नशसददवादिगुणानामिति शसिदद्योरेत्वाभ्यासलोपयोः प्रतिषेध उच्यते । यदिह यथाकथञ्चिदादेशादे. पर्युदासस्स्यात् तर्हि शसिदद्योरभ्यासे शकारदकारयोश्चर्जशोः शकारदकारादेशे सति आदेशादित्वादेव एत्वाभ्यासलोपयो: अभावसिद्धौ न शसददवेति तत्प्रतिषेधोऽनर्थकस्स्यात् । अतः वैरूप्यसम्पादकादेशादेरेव पर्युदासो विज्ञायत इत्यर्थः । तेनेति ॥ स्थानिसरूपादेशादेः पर्युदासाभावादित्यनेनेत्यर्थः । सत्स्वपीति ॥ देधे पेततुः इत्यादौ दकाराद्यादेशेषु सत्स्वपीत्यर्थः । देधे इति ॥ दध दध ए इति स्थिते दकारादकारस्य एत्वेऽभ्यासलोपे च रूपम् । असयोगाल्लिट् किदिति कित्वमिह बोध्यम् । देधिर इति ॥ देधिषे देधाथे देधिध्वे देधे देधिवहे देधिमहे इति रूपाणि सम्भवन्तीति भावः । दिदिवतुरिति ॥ दिव्धातोरतुसि द्वित्वे हलोर्मध्ये अतोऽभावादेत्वाभ्यासलोपौ नेति भावः । तपरः किमिति ॥ अत इति तपरकरण किमर्थमित्यर्थ. । ररासे इति ॥ रासृ शब्दे भ्वादिरात्मनेपदी । अत्र हल्मध्यस्थावर्णस्य ह्रस्वत्वाभावादेत्वाभ्यासलोपौ नेति भावः । एकेत्यादि किमिति ॥ एकहल्मध्यस्थस्येति किमर्थमित्यर्थः । तत्सरतुरिति ॥ त्सरच्छद्मगतौ । लिटोऽतुसि द्वित्वे अभ्यासाकारस्य नासंयुक्तहल्मध्यस्थत्वमिति भावः । चकणतुरिति ॥ कण शब्दे । लिटोऽतुसि द्वित्वे अभ्यासेचर्चेति ककारस्य चुत्वेन चकारः । तथाच वैरूप्यसम्पादकादेशादित्वादेत्वाभ्यासलोपौ नेति भावः । अथ लिण्णिमित्तादेशादिकमित्यत्र लिण्णिमित्तेत्यस्य प्रयोजनमाह । लिट इति । नेमिथेति ॥ णमु प्रह्वत्वे शब्दे च । णोन इति नत्वं । थलि इटि द्वित्वे नत्वसम्पन्ननकारादेशादित्वेपि नत्वस्य लिण्णिमित्तकत्वाभावाल्लिण्णिमित्तकादेशादित्वाभावादेत्वाभ्यासलोपौ निर्बाधाविति भावः । सेहे इति ॥ षह मर्षणे । धात्वादेः षस्स इति षत्वे थलि इटि द्वित्वे सत्वसम्पन्नसकारादेशादित्वेऽपि मत्वस्य