पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३५
बालमनोरमा

विशेषवाचित्वात्तदर्थयोरभेदान्वयः । सम्पदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते । कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते ।

२२४० । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य । (१-३-६३)

आाम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् । इह ‘पूर्ववत्’ इत्यनुवर्त्य वाक्यभेदेन सम्ब


यणादिति ॥ एतच्च भाष्ये स्पष्टम्। नन्वनुप्रयुज्यमानानां कृभ्वस्तीना आम्प्रकृतिभूताना कथमन्वय इत्यत आह । तेषामित्यारभ्याभेदेनान्वय इत्यन्तेन ॥ सामान्यविशेषयोरभेदान्वयस्य न्याय्यत्वादिति भाव । कृञ इव भ्वस्त्योरपि क्रियासामान्यवाचित्वात् । धातूनामनेकार्थत्वात् ज्ञेयम् । ननु कृभ्वस्तियोग इत्यस्य कृञो द्वितीयेत्यस्य च सूत्रस्य मध्ये ‘अभिविधौ सम्पदा च’ इति पठितम् । एवच्च कृञ्प्रत्याहारे सम्पदोऽपि कुतो न ग्रहणमित्यत आह। सम्पदिस्त्विति । अनन्वितार्थत्वादिति ॥ सिद्धस्य वस्तुनो रूपान्तरापतिस्सम्पदेरर्थः । एधादिधातोस्त्वाम्प्रकृतिभूतस्य वृध्यादिरर्थः । तयोरुभयोरपि विशेषरूपत्वेन सामान्यविशेषभावाभावेन अभेदान्वयासम्भवादित्यर्थः । अत एव कृभ्वस्तीनां ग्रहणमिति भाष्य सङ्गगच्छत इति भावः । ननु आम्प्रत्ययवदिति कृञ्ज आत्मनेपदविधायकसूत्र वक्ष्यमाण व्यर्थम् । खरितञित इत्येव तत्सिद्धेरित्याशङ्क्याह । कृभ्वस्तीति । आम्प्रत्ययवदिति ॥ अनुदात्तडित इत्यत आत्मनेपदमित्यनुवर्तते । तत्राम्प्रत्ययस्यात्मनेपदाभावादाह । आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिरिति॥ तस्य अन्यपदार्थस्य गुणा विशेषणानि वर्तिपदार्थरूपाणि तेषां सविज्ञान क्रियान्वयितया ज्ञान न विद्यते यस्य बहुव्रीहेः सः अतद्गुणसविज्ञानः । यथा चित्रगुमानयेति । अत्र हि पुरुषस्यैवान्यपदार्थस्य क्रियान्वय । न तु चित्राणा गवामपि। तथा च प्रकृते आम् प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूतः एधादिधातुरेव आम्प्रत्ययशब्देन लभ्यत इति भावः । आाम्प्रत्ययवदिति ॥ तृतीयान्ताद्वतिः । अनुप्रयुज्यत इत्यनुप्रयोग । कर्मणि घञ् । पञ्चम्यर्थे षष्ठी । तदाह । आाम् प्रकृत्येत्यादिना ॥ आम्प्रकृतेर्भुवितु योग्य यदात्मनेपद तत् अनुप्रयुज्यमानात् कृञोऽपि स्यादिति यावत् । अत्र न प्रत्याहारग्रहणम्। अनुप्रयोगस्येत्येव सिद्धे कृञ्ग्रहणादिह न प्रत्याहारग्रहणमिति भाष्यम्। परगामिन्यपि क्रियाफले कृञ्धातोरात्मनेपदार्थोऽयमारम्भः । इन्दाञ्चकारेत्यादौ तु परगामिनि क्रियाफलेनानेनात्मनेपदम् । आम्प्रकृतेः ‘इदि परमैश्वर्य’ इति धातोरात्मनेपदाभावात् तस्य परस्मैपदित्वात् एतदर्थमेव आम्प्रत्ययवदित्युपात्तम्। नन्विन्दाञ्चकारेत्यादौ मास्त्वनेन सूत्रेण परगामिनि क्रियाफले आत्मनेपदम् । आत्मगामिनि तु क्रियाफले स्वरितञित इत्यात्मनेपदं दुर्वारम् । अस्य सूत्रस्य एधाञ्चक्र इत्यादौ परगामिनि क्रियाफले आत्मनेपदस्याप्राप्तस्य विधान एव समर्थतया आत्मगामिनि क्रियाफले स्वरिताञित इति प्राप्तस्यात्मनेपदस्य निवारणे सामर्थ्याभावादित्यत आह । इहेति ॥ इह आम्प्रत्ययवत् कृञोऽनुप्रयोगस्येति सूत्रे ‘पूर्ववत् सनः’ इति पूर्वसूत्रात् पूर्ववदित्यनुवर्त्य