पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
[भ्वादि
सिध्दान्तकौमुदीसहिता


२२३८ । आमः । (२-४-८१)

आमः परस्य लेर्लुक्स्यात् ।

२२३९ ।। कृञ्चानुप्रयुज्यते लिटेि । (३-१-४०)

आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । ‘आम्प्रत्ययवत्कृव्योऽनुप्रयोगस्य’ (२२४०) इति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन ‘कृभ्वस्तियोगे-’ (२११७) इत्यतः ‘ कृञो द्वितीय–’ (२१२९) इति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां क्रियासामान्यवाचत्वादाम्प्रकृतीनां



रित्यादिना । आस्कासोरिति ॥ कास् प्रत्ययादाममन्त्रे लिटीति, दयायासश्रेति च, कास धातोः, आस्धातोश्च, लिटि आम् विहितः । तत्र मकारस्य इत्सज्ञकत्वे मिदचोऽन्त्यात् पर इति आकारादाकारान्तर स्यात् । ततश्च सवर्णदीर्घे कृते कास् आस् इत्येव भवन्तीति आ विधिरनर्थकस्यात् । अत आमो मकारस्य नेत्सज्ञेति विज्ञायते इत्यर्थः । तथाच एधX आम् ल इति स्थिते । आम इति ॥ मन्त्रे घसहरेत्यतः लेरिति, ण्यक्षत्रियार्षXत्रिन इत्यतः लुगिति चानुवर्तते । तदाह । आमः परस्य लेरिति ॥ अत्रेदमवधेयम् । कृन्मेजन्त इत्यत्र कृद्यो मान्तस्तदन्तमव्ययमिति व्याख्याने एधामित्यादि नाऽव्यय, लिट एव कृत्वात् तस्य च मान्तत्वाभावात् । तथाच प्रत्ययलक्षणेन कृदन्तत्वात् प्रातिपदिकत्वे स्वाद्युत्पत्तौ आम इति लुक् । लेरिति तु नानुवर्तते । मान्त कृदन्तमव्ययामिनि व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वात् एधामिति मान्तमव्ययम् । तनस्सुबुत्पत्तौ अव्ययादाXप इति लुक् । आम इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरिति नानुवर्तनीयम् । आमX परस्य लेरिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव । एवञ्च एधामित्यव्यय नवेति पक्षद्वयं । उभयथाऽपि सुबन्तं पदमिति भाष्ये स्पष्टम् । कृञ्चेति ॥ कास्प्रत्ययादामित्यत: आमित्यनुवृत्त पञ्चम्या विपरिणम्यते । प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । लिटि परे यः कृञ् स अनुप्रयुज्यत इत्यन्वयः । फलितमाह। आमन्ताल्लिट्परा इति ॥ लिट्शिरस्का इत्यर्थः । कृभ्वस्तय इति ॥ कृञित्यनेन कृभ्वस्तीनां ग्रहणमिति भावः । अनुप्रयुज्यन्त इति ॥ प्रशब्दादनु शब्दाच्चाऽव्यवहिताः पश्चात्प्रयुज्यन्त इत्यर्थः । विपर्यासनिवृत्यर्थ व्यवहितनिवृत्यर्थे चेति वार्तिकात् भाष्याच्च । एवञ्च तं पातयाम्प्रथममास पपात पश्चात् । प्रभ्रशयां यो नहुषं चकारेत्यादि प्रयोगाः प्रामादिका एव । धातोराम् स्यात् । कृञ्चानुप्रयुज्यत इत्युक्तसमुच्चयार्थश्चकारः । ननुकृञ एवानुप्रयोगश्रवणात् कथं भवस्त्योरप्यनुप्रयोग इत्यत आह । आम्प्रत्ययवदित्यादिना ॥ कृञ्चानुप्रयुज्यत इत्यत्र कृञ एकस्यैवानुप्रयोगविधौ सति आम्प्रत्ययवदिति सूत्रे अनुप्रयुज्यमानस्येत्यस्य कृञ इति विशेषणं व्यर्थे स्यात् । धात्वन्तरस्यानुप्रयोगाप्रसक्तेः । ततश्च कृञ इति विशेषणादन्यस्यापि अनुप्रयोगो विज्ञायत इत्यर्थः । ननु कृञोऽन्यस्याप्यनुप्रयोगो विज्ञायताम्। भ्वस्त्योरपीत्येव कुत आयातमित्यत आह । तेनेति ॥ कृञ्ग्रहणेनेत्यर्थः । प्रत्याहाराश्र-