२१९८ । लोटो लङ्वत । (३-४-८५)
लोटो लङ इव कार्ये स्यात् । तेन तामादयः सलोपश्च । तथा हि ।
२१९९ । तस्थस्थमिपां तांतंतामः । (३-४-१० १)
ङिन्तश्चतुर्णामेपां तामादयः क्रमात्स्युः ।
२२०० । नित्यं ङितः । (३-४-९९ )
सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः स्यात् । । ‘अलोऽन्त्यस्य’ (४२) इति सस्य लोपः । भवताम् । भवन्तु ।
२२०११ । सेर्ह्यपिच्च । (३-४-८७)
तदुक्त भाष्ये । डित्त्वस्य सावकाशत्वाद्विप्रतिषेधात्तातड् सर्वादेश इत्यभिधाय विस्तरभिया
विरम्यते । भवतादिति ॥ आशिषि लोटस्तिपि शपि गुणे अवादेशे उकार
तोस्तातड् सर्वादेश । डकारइत् । द्वितीयतकारादकारउच्चारणार्थ । लोटो लङ्वदिति ॥
लड इव लङ्वत् । तत्र तस्येवेति षष्ठ्यन्ताद्वति । तदाह । लोटो लङ इवेति ॥ ननु तर्हि
लुड लड् लृड्क्ष्वडुदात्त इत्यडागमोऽपि स्यादित्यत आह । तेनेति ॥ लड इति स्थानषष्ठ्यन्तात् वतिप्रत्ययाश्रयणेनेत्यर्थ । अडागमस्तु न लडो विधीयते । किन्तु लडि अङ्गस्येति
भावः । केन तामादयः । केन वा सलोप इत्यत आह । तथाहीति ॥ तामादयस्सलोपश्च
यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः । तस्थ इति ॥ तस् थस् थ मिप् , एषा
द्वन्द्वात् षष्ठीबहुवचनम् । ताम् तम् त अम्, एषा द्वन्द्वात् प्रथमाबहुवचनम् । नित्य डित
इत्यस्मात् डित इत्यनुवर्तते । तदाह । ङिन्तश्चतुर्णामिति ॥ डितो लकारस्य आदेशभूतानामित्यर्थः । क्रमादिति ॥ यथासख्यसूत्रलभ्यमिदम् । नित्यड्ङित इति ॥
उत्तमपुरुषएवास्य सूत्रस्य प्रयोजन । प्रसङ्गादिहोपन्यस्तम् । स उत्तमस्येति सूत्रमनुवर्तते ।
तत्र स इति षष्ठ्यन्तम् । तेन उत्तमो विशेष्यते । तदन्तविधिः । इतश्च लोप इत्यतो
लोप इत्यनुवर्तते । तदाह । सकारान्तस्य ङिदुत्तमस्येति ॥ डितो लकारस्य य
आदेशः उत्तमपुरुषः तस्येत्यर्थः । वैतोन्यत्रेत्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम् । अलोऽन्त्यस्येत्यन्त्यलोपः। भवतामिति ॥ लोटस्तस् । तस्य तामादेशः । शप् गुणावादेशौ। न च
तामादेशस्य सर्वादेशत्वात् प्राक् विभक्तित्वाभावान्न विभक्तौ तु स्मा इति निषेधाभावात् मकारस्येत्संज्ञा शंक्या । सयोगान्तलोपेन मकारान्तरप्रश्लेषेण उपदेशेऽन्त्यत्वाभावात् । भवन्त्विति ॥
लोटो झेः अन्तादेशे शपि गुणे अवादेशे द्वयोरकारयो पररूपे एरुरितीकारस्य उकारे
भवन्त्विति रूपम् । अथ लोटः सिपि शपि गुणावादेशयोः भव सि इति स्थिते ।
सेर्ह्यीति ॥ हि इति लुप्तप्रथमाकम् । लोटो लड्वदित्यतो लोट इत्यनुवर्तते । तदाह ।